________________
... प्राकृतव्याकरणम इमान्ता अजल्यादयश्च शब्दाः स्त्रियां वा प्रयो क्तव्याः॥ एसा गरिमा एस गरिमा । एसा महिमा एस महिमा। एसा निल्लजिमा एस निल्लजिमा । एसा धुत्तिमा एस धुत्तिमा । अजल्यादि । एसाअञ्जली एस अञ्जली। पिट्ठी पिढे। पृष्ठमित्वे कृते स्त्रियामेवेत्यन्ये । अच्छी अच्छि । पण्हा पाहो । चोरिआ चोरि । एवं कुच्छी। बली। निही विही । रस्सी। गण्ठी । इत्यञ्जल्यावयः ॥ गड्डा गड्डो इति तु संस्कृतवदेव सिद्धम् । इमेति तात्रेण स्वादेशस्य डिमा इत्यस्य पृथ्वादीनश्च संग्रहः । त्वादेशस्य स्त्रीत्वमेवेच्छन्त्येके ॥ ३५ ॥
। बाहोरात् । ८।। ३६ । पाहुशब्दस्य स्त्रियामाकारोन्तादेशो भवति ॥ बाहाए जेण धरिओ एकाए। स्त्रियामित्येव। वामेअरो बाहू ॥३६॥
अतो डो विसर्गस्य । ८।१।३७। संस्कृतलक्षणोत्पन्नस्यातः परस्य विसर्गस्य स्थाने डो इत्यादेशो भवति ॥ सर्वतः । सबओ। पुरतः। पुरओ॥ अग्रतः । अग्गओ ॥ मार्गतः। मग्गओ॥ एवं सिद्धावस्था. पेक्षया। भवतः। भवओ॥ भवन्तः। भवन्तो। सन्तः। सन्तो॥ कुतः। कुदो ॥ ३७॥ निष्प्रती ओत्परी माल्य-स्थोर्वा । ८।१।३८ ।
निर् प्रति इत्येतो माल्यशब्दे स्थाधातौ च परे यथा. संख्यं ओत् परि इत्येवंरूपौ वा भवतः। अभेदनिर्देशः सर्वादेशार्थः ॥ ओमालं। निम्मल्लं । ओमालयं बहइ । परिट्टा पड़ा। परिहि । पइहि ॥ ३८॥