________________
स्वोपज्ञवृत्तिसहितम्
स्नमदाम - शिरो - नमः | ८ | १ | ३२ |
दामन शिरस्नभस्वर्जितं सकारान्तं नकारान्तं च शब्दरूपं पुंसि प्रयोक्तव्यम् ॥ सान्नम् । जसो। पओ । तमो | तेओ । उरो ॥ नान्तम् । जम्मो । नम्मो । मम्मो ॥ अदामशिरोनभ इति किम् । दामं । सिरं । नहं । यच्च सेयं वयं सुमणं सम्मं चम्ममिति दृश्यते तद् बहुलाधिकारात्
1
॥ ३२ ॥
[६२५]
वाक्ष्यर्थ - वचनाद्याः । ८ । १ । ३३ । अक्षिपर्याया वचनादयश्च शब्दाः पुंसि वा प्रयोक्तव्याः॥ अक्ष्यर्थाः | अज्जवि सा सवइ ते अच्छी । नच्चावियाई तेणम्ह अच्छी ॥ अञ्जल्यादिपाठादक्षिशब्दः स्त्रीलि ङ्गेपि । एसा अच्छी । चक्खू चक्खूइं । नयणा नयणाई । लोअणा लोअणाई || वचनादि । वयणा वयणाई ॥ विज्जुणा विज्जूए । कुलो कुलं । छन्दो छन्दं । माहप्पो माहप्पं । दुक्खा दुक्खाई ॥ भायणा भायणाइं । इत्यादि । इति वचनादयः ॥ नेत्ता नेत्ताई । कमला कमलाई इत्यादि तु संस्कृतवदेव सिद्धम् ॥ ३३ ॥
गुणाद्याः क्लीवे वा | ८ | १ | ३४ |
गुणादयः क्लीबे वा प्रयोक्तव्याः ॥ गुणाई गुणा । विहवेहिँ गुणा मग्गन्ति । देवाणि देवा । बिन्दूई बिन्दुणो । खरगं खग्गो । मण्डलग्गं मण्डलग्गो । कररुहं कररुहो । रुक्खाईं रुक्खा । इत्यादि । इति गुणादयः ॥ ३४ ॥ वेमा ल्यायाः स्त्रियाम् । ८ । १ । ३५ ।
७८