SearchBrowseAboutContactDonate
Page Preview
Page 829
Loading...
Download File
Download File
Page Text
________________ [ ६२४ ] प्राकृतव्याकरणम् वीसा ॥ त्रिंशत् । तीसा ॥ संस्कृतम् । सकयं ॥ संस्कारः । सकारो इत्यादि ॥ २८ ॥ मांसादेर्वा | ८ | १ | २९ । मांसादीनामनुस्वारस्य लुग् वा भवति मासं मंसं । मासलं मंसलं । कासं । कंसं । पासू पंसू । कह कहं । एव एवं । नूण नूणं । इआणि इआणिं । दाणि दाणिं । कि करेमि किं करेमि । समुहं समुहं । केसुअं किसु । सीहो सिंधो। मांस । मांसल | कांस्य । पांसु । कथम् । एवम् । नूनम् । इदानीम् । किम् । संमुख । किंशुक । सिंह इत्यादि ॥ २९ ॥ वर्गेन्त्यो वा । ८ । १ । ३० अनुस्वारस्य वर्गे परे प्रत्यासत्तेस्तस्यैव वर्गस्यान्त्यो का भवति ॥ पङ्को पंको । सङ्घो संखो । अङ्गणं अंगणं । लवणं लंघणं । कञ्चुओ कंचुओ। लञ्छणं लंछणं । अञ्जिअं अंजिअं सञ्झा संझा । कण्टओ कंटओ । उक्कण्ठा उक्कंठा । कण्ड कंड | सण्ढो मंढो । अन्तरं अंतरं । पन्थो पंथो । चन्दो चंदो । बन्धवो बंधवो । कम्पइ कंपइ । वम्फइ फइ । कलम्बो कलंबो । आरम्भो आरंभो ॥ वर्ग इति किम् । संसओ । संहरइ । नित्यमिच्छन्त्यन्ये ॥ ३० ॥ प्रावृट् - शरत्तरणयः पुंसि । ८ । १ । ३१ । प्रावृष् शरत तरणि इत्येते शब्दाः पुंसि पुल्लिङ्गे प्रयोक्तव्याः ॥ पाउसो । सरओ। एस तरणी ॥ तरणिशब्दस्य पुंस्त्रीलिङ्गत्वेन नियमार्थमुपादानम् ॥ ३ ॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy