________________
... स्वोपज्ञवृत्तिसहितम्ः [६२३] छंमुहो ॥ उत्कण्ठा। उत्कंठा ॥ न। सन्ध्या । संझा॥ विन्ध्यः विंझो ॥ २५ ॥
वक्रादावन्तः। ८।१ । २६ । वक्रादिषु यथादर्शनं प्रथमादेः स्वरस्य अन्त आगम. रूपोऽनुस्वारो भवति ॥ वंकं । तंसं । अंसुं । मंसं । पुंछ । गुंछ । मुंढा। पंतूं। बुंध। कंकोडो। कुंपलं । दंसणं । विछिओ। गिंठी । मंजारो । एष्वाद्यस्य ॥ वयंसो। मणंसी । मणंसिणी । मणसिला पडंसुआ। एषु द्वितीयस्य । अवरि। अणिउतयं । अइमुंतयं । अनयोस्तृतीयस्य । वक्र । व्यस्र। अथु। श्मश्रु । पुच्छ । गुच्छ । मूर्द्धन् । पशुं । बुघ्न । कर्कोट । कुट्मल । दर्शन । वृश्चिक । गृष्टि। मार्जार । वयस्य । मनस्विन् । मनस्विनी। मनःशिला। प्रतिश्रुत् । उपरि । अतिमुक्तक । इत्यादि । कचिच्छन्दःपू. रणेऽपि । देवं-नाग-सुवण्ण ॥ क्वचिन्न भवति । गिट्ठी। मजारो। मणसिला । मणासिला ।। आर्षे मणोसिला । अइमुत्तयं ॥ २६ ॥
क्वा-स्यादेर्ण-स्वोर्वा । ८।१ । २७ । - करवायाः स्यादीनां च यौ णसू तयोरनुस्वारोन्तो वा भवति ॥ क्त्वा । काऊणं । काऊण। काउआणं काउआण॥ स्यादि। वच्छेणं वच्छेण । वच्छेसु वच्छेसु ॥ णस्वोरिति किम् । करिअ । अग्गिणो॥ २७ ॥
विंशत्यादेर्लुक् । ८।१ । २८ । विंशत्यादीनाम् अनुस्वारस्य लुगू भवति । विंशतिः)