________________
[६१४]
हेमशब्दानुशासनस्य स्पराकाङ्क्षास्वरूपत्वमेकाथीभावरूपत्वं वा। आयं वाक्ये भवति । एकार्थीभावस्तु समासे स्यात् । धर्म श्रितो धर्मश्रित इत्यत्र "श्रितादिभिः" (पृ. १४२) सूत्रेण तत्पुरुषसमासस्य, पुमिच्छति पुत्रीयतीति नामधातोः, कुम्भकार इति कृतः,
औपगवं इत्यत्र “अस्वयम्भुवोऽ' (७-४७०) सूत्रेणऽणि परेऽव इति तद्धि. तस्य, नमो देवेभ्यः इत्युपपदविभक्तेः, धर्मस्ते स्वम् , धर्मो मे स्वमिति युष्मदम्मदादेशयोः, अङ्ग! कुज ३..... इति च प्लुतस्य क्रनश उदाहरणानि सन्ति ।
पश्य धर्म श्रितो मैत्रो गुरुकुलमित्यादीनि समासादीनां प्रत्युदाहरणानि सन्ति । राज्ञः पुरुषमानयेत्यत्र वाक्ये योऽर्थो भवति, राजपुरुषमानायेत्यने. नाऽपि समासे स एवार्थे आविभवति, तत् कः खलु व्यपे बैकार्थीभावयोः प्रतिविशेष इत्यारेकामाचार्य ( हेमचन्दाचार्यः ) एव स्वोपज्ञबृहदवृत्तौ (यद्यपि महदर्थको वृहत् शब्दो वृह वृद्वौ धातोर्वकारादियेव ८८४ उणादिसूत्रतो निष्पद्यते. तथाऽपि बवयोरैक्यात् शतश'ऽम्माभिरीश्च बकारादिवृहत् इति लिख्यते । कोशकाव्यादिष्वपि प्रायो वकारादिरेव दृश्यतेऽतो बृहृतौ इति बकारादिलेखनेऽपि न कश्चिद् दोषो भाव्यो दोषः । ) निराकार, जिज्ञामुभिस्तत एव ज्ञातव्यं, गौरवभिया नात्र लिख्यतेऽस्माभिः ।
"समर्थः पदविधिः' सूत्रं समासे मुख्यतयोपयुज्यतेऽतोनिपुणं ज्ञातव्यं छात्रैः । मूलरूपेण सप्तपञ्चाशत् न्याया (परिभाषाः) इदंशब्दानुशासनकाss. चार्येण बृहद्वृत्ती प्रतिपा देताः । शास्त्रे सूचना लोकसिद्धाश्च तद्भिन्ना ये व्याकरणोपयुक्ता न्यायाः सन्ति तान् , बृहदवृत्तिसूचिताश्च स्र्वान् १४० संख्याकान् न्य यान् संगृह्य महावैयाकरणेन हेमहंसगणिना स्वोपज्ञवृत्तिन्याससमलकृते न्यायसंग्रहे ग्रन्थे स्फुटतया विवृताः सन्ति ।
अत्र सप्तमाधाये संस्कृतभाषा या व्याकरणं पूर्ण भवति । अतः परं समग्रेऽ. टमाध्याये प्राकृत-शौरसेनी-मागधी पैशाची-चुलिकापैशाची-अपभ्रंशइतिभाषाषट्कस्य १११९ संस्कृतसूत्रैः सरलमनोहारिण्या पद्धत्या सोदाहरणमनुशासनं ( व्याकरणम् ) विरचितमार्यधुर्येण श्रीहेमचन्द्राचार्येणे.ते विदाकुर्वन्तु कोविदवृन्दानि ।