________________
स्वोपनलघुवृत्तिः वातण्डययुवतिः । वतण्डया, मुंबद्भावार्थत आसन्नः, वातण्ड्यः , अमुष्मै । "मादुवर्णोऽनु” (२-१-४७, पृ०५३) इति मात्रिकस्य मात्रिकः ॥ १२० ॥
सम्बन्धिना सम्बन्धे । ७।४ । १२१ । सम्बन्धिशब्दानां यत् कार्यमुक्तं तत सम्बन्ध एव सति स्यात् । श्वशुर्यः। संज्ञायास्तु इञव, श्वाशुरिः ॥ ॥१२१ ॥ .
सेमर्थः पदविधिः । ७। ४ । १२२ । समर्थपदाश्रयत्वात् समर्थः, पदसम्बन्धी विधिः पदविधिः, सर्वपदविधिः समर्थो ज्ञेयः। सामर्थ्य च व्यपेक्षा एकाथर्थीभावश्च । पदविधिस्तु समास नामधातु-कृत्-तद्वितोपपदविभक्ति-युष्मदस्मदादेश-प्लुतरूप।धर्मश्रितः, पुत्रीयति, कुम्भकारः, औपगवः, नमो देवेभ्यः, धर्मस्ते स्वम्, धर्मो मे स्वम्, अङ्गकूज ३ इदानीं ज्ञास्यसि जाल्म!। समर्थ इति किम्? पश्य धर्मे श्रितो मैत्रो गुरुकुलम्, पश्यति पुत्रमिच्छति सुखम्, पश्य कुम्भं करोति कटम् , गृहमुपगोरपत्यं तव, इदं नमो देवाः! शृणुत, ओदनं पच तव मम वा भविष्यति । अङ्ग! कूजत्ययमिदानी ज्ञास्यति जाल्म । पदोक्तवर्णविधिरसामर्थेऽपि स्यात् । तिष्ठतु दध्यशान त्वं शाकेन । एवं समासनामधातुकृत्तद्धितेषु . १ पदविषयको विधिः पदविधिः। पदात् पदे पदयोः, पदानां वा विधिः स सर्वपदविधिरेवोच्यते । तादृशः पदविधिः समर्थो भवतीत्यर्थः । समर्थत्वं नाम पर.