________________
[६१२] हैमशब्दानुशासनस्य
प्रत्ययः प्रकृत्यादेः।७।४ । ११५। यस्माद् यः प्रत्ययो विधीयते सा तस्य प्रकृतिः। प्रत्ययः प्रकृत्यादेः समुदायस्य विशेषणं स्यात् , नोना. धिकस्य । मातृभोगीणः ॥ ११५॥
गौणो ड्यादिः । ७।४ । ११६ । डीमारभ्य व्यं यावत ड्यादिःप्रत्ययः। स गौणः सन् प्रकृत्यादेः समुदायस्य विशेषणं स्यात् । अतिकारीषगन्ध्य बन्धुः । गौण इति किम् ? मुख्योऽधिकस्यापि विशेषणं स्यात , परमकारीषगन्धीबन्धुः ।। ११६ ॥
कृत्सगतिकारकस्यापि । ७।४। ११७। कृत्प्रत्ययः प्रकृत्यादेः सनुदायस्य गतिकारकरस्य, केवलस्य च विशेषणं स्यात् । यथेह समासो भस्मनिहुँतं, तथा उदकेविशीर्णम्, अवतप्तनकुलस्थिततम् ॥ ११७ ॥
परः। ७।४।११८ । प्रत्ययःप्रकृते पर एव स्यात् । अजा,वृक्षः, जुगुप्सते॥
स्पर्द्ध । ७।४।११९। द्वयोर्विध्योरन्यत्र सावकाशयोस्तुल्यबलयोरेकत्राऽ. नेकत्रचोपनिपातःस्पर्द्धः। तत्र यः सूत्रपाठे परः स विधिः स्यात् । वनानि, अत्र "शसोऽना सश्च नः पुंसि" [१४-४९ ] इत्यतो नपुंसकस्य शिरित्येव स्यात् ।। ११९ ॥
आसन्नः ।७।४।१२०। यथास्वं स्थानार्थप्रमाणादिभिरासन्न एक विधिःस्यात्। दण्डानम् अत्र कण्ठययोरतोः कण्ठ्य एव आ दीर्घः।
न न्यूमस्य नाधिकस्य चेत्यर्थः । २ एषु "क्तेन" (पृ० १४७) सूत्रेण सप्तम्यन्तं तत्पुरुषसमासः स्यात् ।