________________
स्वोपज्ञलघुवृत्तिः
[ ६१५ ]
वाक्ये व्यपेक्षावृत्तावेकार्थीभावः । शेषेषु पुनव्यंपेक्षव सामर्थ्यम् ॥ १२२ ॥
इत्याचार्य श्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ सप्तमस्याध्या
समाप्तः ॥
यस्य चतुर्थः पादः ॥ सम्पूर्णा चासौ लघुवृतिः ॥
( सम्पूर्णमेतत् लघुवृत्तिभूषितं
संस्कृत हैमव्याकरणम् । )
श्रीहेमचन्द्र प्रभुमानमाम्यहं वृर्ति तदीयां महती च लक्षणे । तत्सन्निध्प्रेरेष मयाऽल्पमेधली बाल्योचितं चेष्टितमेतद लोकम् ॥१॥ सीनि स्थितोऽहं खलु मन्द मेधसां सूरिः स धुर्यस्तु सुमेधसां स्मृतः। तथाऽपिं मोहाद् विषम प्रचेष्टितं तत् क्षाम्यत क्षाम्यत साधबो बुधाः ॥ २ ॥ यथाऽऽयासं हि सङ्कुच्य मया सारांशतो लघु । हब्धं छात्रोपकाराय क्वचित् श्रीबालटिप्पणम् ॥ ३ ॥ पूज्यविद्याविजेतृणां प्रसत्तेस्नत्पुरे स्थितः । 'खनिध्यङ्कमिवन्दे हिमांसुः टिप्पणं व्यधात् ॥ ४ ॥
इति श्रीसिद्धहेमचन्द्रनाम्नि व्याकरणे टिप्पणं पूर्णम् ।