________________
त्रनाम्ना...
[६०८] हेमशब्दानुशासनस्य
दूरादामन्त्र्यस्य यो हेहैशब्दो तयोः प्रयुक्तयोरेव वा. क्ये यत्र तत्रस्थयोरन्त्यस्वरः प्लुतो वा स्यात् । हे३मैत्र ! आगच्छ, आगच्छ हे३मैत्र!, आगच्छ मैत्र हे ३! । हे३मै. त्राऽऽगच्छ, आगच्छ हे३मैत्र!, आगच्छ मैत्र है ३ ॥ ' अस्त्री-शूद्रे प्रत्यभिवादे भो-गोत्रनाम्नो
वा। ७।४।१०१। यदभिवादितो गुरुः कुशलानुयोगादिमद्वाक्यं प्रयुङ्क्ते, तत्रास्त्रीशूद्रविषये वर्तमानस्य वाक्यस्य स्वरेष्व त्यस्वरो भोसो गोत्रस्य नाम्नो वाऽऽमन्त्र्यस्यांशः प्लुतो वा स्यात् । अभिवादये भैत्रोऽहं भोः ३., [आभिवादये मैत्रोऽहं भो..] आयुष्मानेधि भोः३! [आयुष्मान एधि] भो! वा । अभिवादये गार्योऽहं भो!, कुशल्यसि गा. र्य ३!, गार्ग्य वा। अभिवादये मैत्रोऽहं भोः, आयुष्मन्नेधि मैत्र ३!, मैत्र वा । स्त्रीशूद्रवर्जनं किम् ? अभि. वादये गार्यहं भोः! आयुष्मती त्वं भव गार्गि!, अभि. वादय तुषजकोऽहं भोः!, कुशल्यसि तुषजक! ॥१०१॥ प्रश्नाऽर्चा-विचारे च सन्धेयसन्ध्यक्षरस्याऽऽ
इदुत्परः । ७।४।१०२। १ भोस् इतिशब्दस्य कश्यपगर्गादिगोत्रस्य संज्ञायाश्च सम्बोधनांशो वा प्लुतो भवति । प्रथमे भोस इत्यस्य, द्वितीये गोत्रस्य गार्य इत्यस्य, तृतीये मैत्र इति नाम्नो वा प्लुतविधानं जातम् । एधि-भवेत्यर्थः, अस्तेहिंप्रत्यये " शास असहनः शाधि-एधि-जहि" (४-२-८४ ) इति एधि आदेझः । कुशल्यसि गाये ! इत्यादि विकल्पवचनं पूर्ववदावर्तनीयं गौरवभयानात्र लिख्यते। प्लुतविषये सोदाहरणं स्फुटत्वं सिद्धहेमबृहवृत्तितो वेद्यम् ।