________________
... स्वोपज्ञलघुवृत्तिः [६०७] . ओमः प्रारम्भे । ७।४ । ९६ ।
ओमः प्रणामाद्यभ्यादानार्थस्य स्वरेष्वन्त्यःस्वरः प्लुतो वा स्यात् । ओ३म् , ओम् वा, ऋषभमृषभगामिनं प्रणमत ॥ ९६ ॥
हेः प्रश्नाऽऽख्याने। ७ । ४ । ९७ । पृष्टप्रतिवचनार्थ वाक्यस्य हेः स्वरेष्वन्त्यः स्वरः प्लुतो वा स्यात् । अकार्षीः कटं मैत्र ? अकार्ष हि ३, [अकार्ष ] हि वा ।। ९७ ।। .
प्रश्ने च प्रतिपदम् । ७ । ४ । ९८ । - प्रश्नार्थस्य प्रश्नाऽऽख्यानार्थस्य च वाक्यस्य यत् पदं. तस्य स्वरेष्वन्त्यः स्वरः प्लुतो वा स्यात् । अगमः३ पूर्वा३न् ग्रामाश्न मैत्र३१, अगमः पूर्वान् ग्रामान् मैत्र?। अग. म३म् पूर्वा३न् ग्रामा३न् मैत्र ३, अगमं पूर्वान् ग्रामान् मैत्र! ।। ९८ ॥
दूरादामन्त्र्यस्य गुरुर्वकोऽनन्त्योऽपि
लनृत् । ७ । ४ । ९९ । .. वाक्यस्य यः स्वरेष्वन्त्यस्वरो दूरादामन्यार्थपदस्थो गुरुर्वाऽनन्त्योऽपि ऋद्वर्जस्वरलकारश्चैकोऽसौ प्लुतो वा स्यात् । आगच्छ भो देवदत्त३ !, देवदत्त ! वा। सक्तून् पिब दे३वदत्त, देवद३त्त, देवदत्त वा । आगच्छ भोः क्लू३प्तशिख, क्लप्तशिख वा। अदिति किम् ? कृष्णमित्र!, कृष्णमित्र ! [३] ॥ ९९ ॥
हे-हैप्वेषामेव । ७ । ४ । १००।