________________
[६०६] हैमशब्दानुशासनस्य
भर्त्सनार्थस्य वाक्यस्य स्वरेष्वन्त्यः स्वरः, त्याद्यन्तस्य पदस्य वाक्यान्तराऽऽकाङ्क्षस्य अङ्गेन युक्तस्यांशः प्लुतो वा स्यात् । अङ्ग ! कूज ३, अङ्ग कूज, इदानीं ज्ञास्यसि जाल्म! । साऽऽकाङ्क्षस्येति किम् ? अङ्ग ! पच ॥ ९१॥
क्षियाऽऽशी-प्रेषे । ७।४ । ९२। .. क्षिया आचारभ्रेषः।[आशीः प्रार्थनाविशेषः । प्रैषोऽ. सत्कारपूर्विकाव्यापारणा] एतवृत्तेर्वाक्यस्य स्वरेष्वन्त्यः स्वरः, त्याद्यन्तस्य वाक्यान्तराऽऽकाङ्क्षस्यांशः प्लुतो वा स्यात् । स्वयं ह रथेन याति ३, याति वा, उपाध्या. अयं पदातिं गमयति । सिद्धान्तमध्येषीष्ठाः ३, अध्येषीष्ठा वा, तक्कैःच तात!, कटं च कुरु ३, कुरु वा, ग्रामं च गच्छ ॥९२॥
चितीवार्थे । ७। ४ । ९३ । . सादृश्यार्थे चिति प्रयुक्ते वाक्यस्य स्वरेष्वन्त्यः स्वरः प्लुतो वा स्यात् । अग्निश्चिद्भायो३त् , भायाद् वा। इवार्थे इति किम् ? कर्णवेष्टकांश्चित्कारय ।। ९३॥
प्रतिश्रवण-निगृह्यानुयोगे । ७।४ । ९४ । एतवृत्तेर्वाक्यस्य स्वरेष्वन्त्यः स्वरः प्लुतोवास्यात्। गां मे देहि भोः। हन्त ते ददामि ३, ददामि वा। अद्य श्राद्धमित्यात्थ ३, आत्थ वा ॥९४ ॥
विचारे पूर्वस्य । ७।४ । ९५ । विचारः संशयः । तद्विषये संशय्यमानस्य यत्पूर्व तस्य स्वरेष्वन्त्यः स्वरः प्लुतो वा स्यात् । अहिर्नु ३ अ. हिर्नु वा रज्नुर्नु ॥ ९५॥
१ अत्राऽऽकारस्यान्त्यस्वरत्वादस्यैव प्लुतत्वम् , स्वरस्यैव प्लुतभेदत्वात् ।