________________
. स्वोपज्ञलघुवृत्तिः [६०५] . एतावक्लेशार्थों वा द्विः स्याताम् , आदौ स्यादेः पिल्लुप् च। प्रियप्रियेण, प्रियेण वा दत्ते। सुखसुखेन, सुखेन वाऽधीते ॥ ८७ ॥ .
वाक्यस्य परिवर्जने । ७।४।८८ । वर्जनाओं वाक्यांशः परिवा द्विः स्यात्। परि परि परि वा त्रिगर्तेभ्यो वृष्टौ मेघः। वाक्यस्येति किम् ? परित्रिगर्त वृष्टो मेघः ॥ ८८ ॥ ..
सम्मत्यसूया कोप-कुत्सनेष्वाद्यामन्त्र्यमादौ,
स्वरेष्वन्त्यश्च प्लुतः । ७।४।८९। एतवृत्तेर्वाक्यस्याऽऽदिभूतमामन्त्र्यार्थ पदं द्विः स्यात् , द्वित्वे चाऽऽदौ स्वराणां मध्येऽन्त्यस्वरः प्लुतो वा स्यात् । माणवक ३ माणवक! , माणवक माणवक! आर्यः खल्वसि। 'रिक्तं ते आभिरूप्यम् , इदानीं ज्ञास्य. सि जाल्म!, रिक्ता ते शक्तिरिति वा । आदीति किम् ? भव्यः खल्वसि माणवक ! ॥ ८९॥
भर्त्सने पर्यायेण । ७ । ४ । ९० । कोपेन दण्डाऽविष्क्रिया भर्सनम् । तवृत्तेर्वाक्य. स्य यदामन्यं पदं तद् द्विः स्यात्, द्वित्वे च क्रमेण पूर्वोत्तरपदयोः स्वरेष्वन्त्यः प्लुतो वा स्यात् । चौर ३ चौ. र!, चौर चौर ३!, चौर चौर ! घातयिष्यामि त्वाम् ॥ ९० ॥ त्यादेः साऽऽकाङ्क्षस्याङ्गेन । ७।४ । ९१ ।
१ अत्रासूयार्थः । माणवक ३ इत्यादीह योज्यं पूर्ववत् । इदानीमित्वत्र कोपार्थः। रिक्ता इत्यत्र कुत्सनार्थः । एषु सर्वेषु पूर्ववत् माणवक ३ माणवक इत्यादि वा पुनर्वाच्यम् । त्रिमात्रः प्लुतः। संधिरोधायर्थं प्लुतकरणम् । ३ इदं त्रिमात्रविहम् ।