________________
[६०४] हेमशब्दानुशासनस्य
द्वन्द्वं वा । ७। ४ । ८२। वीप्सायां द्वयक्तस्य द्वेरादेः स्यादेः पिल्लुप् स्यात् , एश्चाम, उत्तरत्रेतोऽत्वं स्यादेश्वाऽम् वा निपात्यः। द्वन्द्वं, द्वौ द्वौ वा लिष्ठतः ॥ ८२ ॥ रहस्य-मर्यादोक्ति-व्युत्क्रान्ति-यज्ञपात्रा
प्रयोगे । ७।४ । ८३ । एषु गम्येषु द्वेर्विचनं शेषं च पूंवन्निपात्यम् । द्वन्द्वं मन्त्रयन्ते, पशवो द्वन्द्वं मिथुनायन्ते, द्वन्द्वं व्युत्क्रा न्ताः, द्वन्दं यज्ञपात्राणि प्रयुनक्ति ।। ८३ ॥
लोकज्ञातेऽत्यन्तसाहचर्ये । ७। ४ । ८४ ।
अत्र द्योत्ये द्वेः पूर्ववत् द्वन्द्वमिति निपात्यम् , द्वन्द्वं रामलक्ष्मणौ ॥ ८४॥
आवाधे । ७।४। ८५। मनःपीडाविषये शब्दो द्विः स्यात् , आदौ स्यादेश्व पित् लुप् । ऋक् ऋक् ॥ ८५ ॥
नवा गुणः सदृशे रित् । ७।४ । ८६ । गुणशब्दो मुख्यसदृशे गुणे गुणिनि वा वर्तमानो द्विवा स्वात, आदौ स्यादेः पित् लुप् च, सा च रित् । शु. क्लशुक्लं रूपम् , कालककालिका । पक्षे शुक्लजातीयः ।।
प्रियसुखं चाकृच्छ्रे । ७ । ४ । ८७ । १ पूर्वस्य द्विशब्दस्य स्यादिप्रत्ययानां प्लुप् स्यात् । पूर्वद्वेरिकारस्य च अम् उत्तरद्वेरिकारस्य अकारः, स्यादिप्रत्ययानां च अम् इति निपात्यते अतो द्वौ द्वौ . इत्यादिसप्तविभक्तिप्रयोगानां द्वन्द्वमिति सिध्यति। सप्तविभक्तिषु लिङ्गत्रये चैवं वा विज्ञेयं, पक्षे द्वौ द्वौ, द्वाभ्यां द्वाभ्यामित्यादि स्यात् । एवमुत्तरसूत्रेषु द्वन्द्वमनेनैव सूत्रेण साध्यम्।