________________
[५९४] हैमशब्दानुशासनस्य
एयस्य । ७। ४ । २२ । एयान्तांशात प्रात् परस्य वाहणस्य णिति तद्विते स्वरेष्वादेर्वृद्धिः स्यात् , प्रस्य तु वा। प्रवाहणेयिः, प्रावा. हणेयिः ॥ २२ ॥ नञः क्षेत्रज्ञेश्वर-कुशल-चपल-निपुण
शुचेः । ७।४। २३ । नत्रः परेषां एषां णिति तद्धिते स्वरेष्वादेवृद्धिः स्यात् , नअस्तु वा । अक्षैत्रज्ञम् , आक्षेत्रज्ञम् । अनैश्वरम्, आनैश्वरम्। अकौशलम् , आकौशलम्। अचापलम् , आचापलम् । अनैपुणम् , आनैपुणम् । अशौचम् , आशौचम् ॥ २३॥
जङ्गल-धेनु-वलजस्योत्तरपदस्य तु
वा ७ । ४ । २४ । एतदुत्तरपदानामादेः पूर्वपदस्य स्वरेष्वादेनित्यं वृद्धिः स्यात् , वा तूत्तरपदस्य णिति तद्विते । कौरुजङ्गाला, कौरुजाङ्गलः । वैश्वधेनवः, वैश्वधैनवः। सौवर्णवलजः, सौवर्णवालजः ॥ २४ ॥
हृद्-भग-सिन्धोः । ७ । ४ । २५ । हृदाद्यन्तानां पूर्वपदस्योत्तरपदस्य च स्वरेष्वादेवृद्धिः स्यात्, णिति तद्धिते। सौहाईम् सौभाग्यम् , साक्तुसन्धवः ॥ २५ ॥
प्राचां नगरस्य । ७ । ४ । २६ । ___ प्राग्देशार्थस्य नगरान्तस्य णिति तद्धिते पूर्वोत्तरपदयोः स्वरेष्वादेवृद्धिः स्यात् । सौह्मनागरः। प्राचामिति