SearchBrowseAboutContactDonate
Page Preview
Page 798
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [५९३] . सख्याधिकाभ्यां वर्षस्याऽभा विनि । ७।४।१८॥ सङ्ख्यार्थाद् अधिकाच्च परस्य वर्णस्य णिति तद्धिते स्वरेष्वादेः स्वरस्य वृद्धिः स्यात्, न चेत् तद्धिती भाविन्यर्थे। द्विवार्षिकः। अधिकवार्षिकः। अभाविनीति किम् ? द्वैवार्षिकं धान्यम् ॥ १८ ॥ मान-संवत्सरस्याऽशाण-कुलिजस्याऽ नाम्नि । ७। ४ । १९ । सङ्ख्यार्थाधिकाभ्यां परस्य शाणकुलिजवर्जस्य मानार्थस्य, संवत्सरस्य च णिति तद्धिते स्वरेष्वादेः स्वरस्य वृद्धिः स्यात्, अनाम्नि । द्विकौडविका, अधिककौडविकः, द्विसांवत्सरिकः । अशाणकुलिजस्येति किम् ? द्वैशाणम् , द्वैकुलिजिकः। अनाम्नीति किम् ? पाश्चलोहितिकम् ॥ १९ ॥ अर्द्धात् परिमाणस्याऽनतो वा'लादेः।७।४।२०। अर्धात् परस्य परिमाणार्थस्य स्वरेष्वादेरवर्जस्वरस्थ जिणति तद्धिते वृद्धिः स्यात, वा त्वर्द्धस्य । अर्द्धकौडवि. कम्, आर्द्धकौडविकम् । अनत इति किम् ? अर्द्धप्रस्थिकम् , आर्द्धप्रस्थिकम् ॥ २०॥ . ___पाद् वाहणस्यैये । ७ । ४ २१ । प्रात् परस्य वाहणस्य एये णिति तद्धिते स्वरेष्वादेवृद्धिः स्यात्, प्रस्य तु वा । प्रवाहणेयः, प्रावाहणेयः॥२१॥ १ परिमाणवाचिशब्दात् पूर्वस्थस्यार्धशब्दस्य तु बिकल्पतो वृद्धिरित्यर्थः।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy