SearchBrowseAboutContactDonate
Page Preview
Page 797
Loading...
Download File
Download File
Page Text
________________ [५९२] हेमशब्दानुशासनस्य पदस्यानिति वा । ७।४ । १२ । पदशब्दान्तस्य श्वादेरिदादिवर्जे णिति तद्धिते वः प्रागौद् वा स्यात् । श्वापदन , शौवापदम् । अनितीति किम् ? श्वापदिकः ॥ १२ ॥ प्रोष्ठ-भद्राज्जाते । ७।४।१३। । आभ्यां परस्य पदस्योत्तरपदस्य स्वरेष्वादेः स्वरस्य जातेऽर्थे णिति तद्धिते वृद्धिः स्यात् । प्रोष्ठपादः, भद्र. पादो घटुः ॥ १३ ॥ ... अंशाद् ऋतोः । ७।४ । १४ । __ अंशार्थात परस्य ऋत्वर्थस्योत्तरपदस्य स्वरेष्वादेः स्वरस्य णिति तद्धिते वृद्धिः स्यात् । पूर्ववार्षिकः । अंशादिति किम् ? सौत्रर्षिकः ॥ १४ ॥ ... सु-सर्वादि राष्ट्रस्य । ७।४।१५। एभ्यः परस्य राष्ट्रार्थोत्तरपदस्य किंगति तद्धिते स्वरेः ध्वादेः स्वरस्य वृद्धिः स्यात् । सुपाचालका, सर्वपाश्चालकः, अर्धपाश्चालकः ॥ १५ ॥ अमद्रस्य दिशः। ७१४ । १६ । . दिगर्थात् परस्य मद्रवर्जराष्ट्रार्थस्य णिति तद्धिते स्वरेष्वादेः स्वरस्य वृद्धिः स्यात् । पूर्वपाश्चालिकः। अमद्र स्येति किम् ? पौर्वमद्रः ॥ १६ ॥ प्राग्ग्रामाणाम् । ७ । ४ । १७ । प्राग्देशे ग्रामार्थानां यः अंशो दिगर्थस्ततः परस्यांशस्य, दिशः परेषां च प्राग्ग्रामार्थानां गिति तद्धिते स्वरेष्वादेः स्वरस्य वृद्धिः स्यात् । पूर्वकार्ण मृतकः । पूर्वकान्यकुब्जः॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy