SearchBrowseAboutContactDonate
Page Preview
Page 800
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [५९५] किम् ? माडनगरः ॥ २६ ॥ अनुशतिकाऽऽदीनाम् । ७।४।२७। एषां णिति तद्विते पूर्वोत्तरपदयोः स्वरेष्वादेर्वृद्धिः स्यात् । आनुशातिकम् , आनुहौडिकम् ॥ २७ ॥ देवतानामात्वाऽऽदौ । ७ । ४ । २८ । आत्वविषये देवतार्थानां पूर्वोत्तरपदयोः स्वरेष्वादेवृद्धिः स्यात, णिति तद्धिते। आग्नावैष्णवं सूक्तम् । आत्वादाविति किम् ? ब्राह्मप्रजापत्यम् ।। २८ ॥ आतो नेन्द्र-वरुणस्य । ७।४ । २९ । आदन्तात् पूर्वपदात् परस्येन्द्रस्य वरुणस्य चोत्तरपदस्य स्वरेष्वादेर्वृद्धिन स्यात् । आग्नेन्द्रं सूक्तम् , ऐन्द्रावरुणम् । आत इति किम् ? आग्निवारुणम् ॥ २९ ॥ सारपेक्ष्वाक-मैत्रेय-भ्रौणहत्य-धैवत्य-हि रण्मयम् । ७।४।३०। एतेऽणाद्यान्ता अय्लोपादौ निपात्याः। सारवं जलम् , ऐक्ष्वाकः, मैत्रेयः, भ्रौणहत्यम् , धैवत्यम् , हिरण्मयम् ॥ ३० ॥ 'वाऽन्तमाऽन्तितमाऽन्तितस्--अन्तियाऽन्ति षत् । ७ । ४ । ३१ । एते तमबाद्यन्ताः कृततिकादिलुको वा निपात्याः । अन्तमः, अन्तिकतमः। अन्तितमः, अन्तिकतमः। अन्ति. तः, अन्तिकतः । अन्तियः, अन्तिक्यः। अन्तिषद्, अ. न्तिकसद् ॥ ३१॥ १ एते सर्वेऽन्तिकशब्दस्यैव रूपाणि पृथक्पृथगर्थप्रत्ययेषु भवन्ति ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy