________________
[५८६] हेमशब्दानुशासनस्य शुद्धदन्तः । शुभ्रदन् , शुम्रदन्नः । वृषदन , वृषदन्तः । वराहदन , वराहदन्तः । अहिदन् , अहिदन्तः। मूषि. कदन् , मूषिकदन्तः। शिखरदन , शिखरदन्तः ॥ १५४॥
सं-प्रात् जानोर्ड-ज्ञौ । ७।३।१५५ ।
आभ्यां परस्य जानोरहुवोही जुज्ञो स्याताम् । संजुः, संज्ञः। प्रजुः, प्रज्ञः ॥ १५५ ।।
वोति । ७।३ । १५६ । ऊर्ध्वात् परस्य जानोर्यहुव्रीही जुज्ञौ वा स्याताम् । ऊर्ध्वचः, ऊर्ध्वज्ञः, ऊर्ध्वजानुः ॥ १५६ ॥ .
सुहृद्-दुई मित्राऽमित्रे ।७।३ । १५७ । ___सुदुा परस्य हृदयस्य बहुव्रीही यथासंख्यं मित्रेऽ. मित्रे चार्थे हृद् निपात्यः। सुहृन मित्रम् । दुईद् अमित्रः । मित्रामित्र इति किम् ? सुहृदयो मुनिः, दुहृदयो व्याधः॥
__ धनुषो धन्वन् । ७।३ | १५८ । बहुव्रीहौ स्यात् । शार्ङ्गधन्वा ॥ १५८॥ .
वा नाम्नि । ७।३।१५९ । धनुषो बहुव्रीहौ धन्वन् वा स्यात् , नाम्नि । पुष्पधन्वा, पुष्पधनुः ॥ १५९ ॥ खर-खुरात् नासिकाया नम् । ७।३ । १६० ।
आभ्यां परस्या नासिकाया बहुव्रीही नस् स्यात् , नाम्नि । खरणाः, खुरणाः ॥ १६०॥
अस्थूलाच नसः।७।३ । १६१ ।