SearchBrowseAboutContactDonate
Page Preview
Page 790
Loading...
Download File
Download File
Page Text
________________ [५८५] स्त्रोपज्ञलघुवृत्तिः . हस्त्यादिवर्जादुपमानात् परस्य बहुव्रीहो पादस्य पाद स्यात् । व्याघ्रपात । अहस्स्यादेरिति किम् ? हस्तिपादा, अश्वपादः ॥ १४८ ॥ कुम्भपद्यादिः । ७।३ । १४९ । . एते कृतपदन्ता यन्ता एव बहुव्रीहयो निपात्याः। कुम्भपदी, जालपदी ॥ १४९ ।। सु-सङ्ख्यात् । ७।३ । १५० । सो सङ्ख्यायाश्च परस्य पादस्य बहुव्रीहो पात् स्यात। सुपाद् , द्विपात् ॥ १५० ॥ .. वयसि दन्तस्य दतः। ७।३ । १५१ । सुपूर्वस्य सख्यापूर्वस्य च दन्तस्य बहुव्रीही वयसि गम्ये दतः स्यात् । सुदन कुमारः, द्विदन् बालः। वयसीति किम् ? सुदन्तः॥ १५१ ॥ . स्त्रियां नाम्नि । ७।३ । १५२ । बहुव्रीहौ स्त्रियां नाम्नि दन्तस्य दतः स्यात् । अयो. दती । स्त्रियामिति किम् ? वज्रदन्तः ॥ १५२ ॥ श्याचारोकादा। ७।३ । १५३ । .. आभ्यां परस्य दन्तस्य बहुव्रीहौ दतृ स्यात, नाम्नि। श्यावदन् , श्यावदन्तः । अरोकदन् , अरोकदन्तः ॥१५३॥ वाध्यान्त-शुद्ध-शुभ्र वृष-वराहा हि-मूषिक-शिख रात् । ७।३। १५४ । अग्रान्तात , शुद्धादिभ्यश्च परस्य दन्तस्य बहुव्रीही दतर्वा स्यात् । कुड्मलाग्रदन , कुड्मलाग्रदन्तः । शुद्धदन,
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy