________________
[५८४] हेमशब्दानुशासनस्य
एभ्यः परो यो जम्भस्तदन्ताद् बहुव्रीहेरन् स्यात् । सुजम्मा, हरितजम्मा, तृणजम्भा, सोमजम्भा ना ॥
दक्षिणेर्मा व्याधयोगे ।७। ३ । १४३ ।
अयं बहुव्रीहिरनन्तो निपात्यः, व्याधेन योगे सति । ईम बहु व्रणं वा । दक्षिणेर्मा मृगः। व्याधयोग इति किम् ? दक्षिणेमः पशुः॥ १४३॥ सु-पूत्युत्-सुरभेर्गन्धाद् इद् गुणे । ७।३। १४४ ।
एभ्यः परो गुणार्थो यो गन्धः तदन्ताद् बहुव्रीहेरिद स्यात् । सुगन्धि, पूतिगन्धि उद्गन्धि, सुरभिगन्धि द्रव्यम् । गुण इति किम् ? द्रव्ये, सुगन्ध आपणिकः ॥
वाऽऽगन्तौ । ७ । ३ । १४५ । ____ स्वादिभ्यः पर आहार्यगुणार्थो यो गन्धः तदन्ताद् व. हुवीहेरिद् वा स्यात् । सुगन्धिः, सुगन्धो वा कायः । एवं पूतिगन्धिः पूतिगन्धः । उद्गन्धिः उद्गन्धः । सुरभिगन्धिः सुरभिगन्धः ।। १४५ ।।
वाऽल्पे । ७।३।१४६ । । अल्पार्थो यो गन्धः, तदन्ताद बहुव्रीहेरिद् वा स्यात् । सूपगन्धि, सूपगन्धं भोजनम् ।। १४६ ॥
वोपमानात् । ७।३। १४७। उपमानात् परो यो गन्धः, तदन्ताद् बहुव्रीहेरिद वा स्यात् । उत्पलगन्धि, उत्पलगन्धं मुखम् ॥ १४६ ॥
पात् पादस्याऽहस्त्यादेः । ७ । ३ । १४८ ।