SearchBrowseAboutContactDonate
Page Preview
Page 788
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [ ५८३ ] नत्रादेः परो यः सक्त्थ्यादिः तदन्ताद् बहुव्रीहेर‍ (वा ?) स्यात् । असक्तः, असक्तिः । सुसक्तः सुसक्तिः । दुःसक्तः, दुःसक्तिः । एवमसक्त्थः, असक्त्थिः । अहलः, अहलिः ॥ १३६ ॥ प्रजाया अस् । ७ | ३ | १३७ | नजादिपूर्वपदात् प्रजान्ताद्बहुव्रीहेरम् स्यात् । अप्रजाः, सुप्रजाः, दुःप्रजाः ॥ १३६ ॥ मन्दाऽल्पाच्च मेधायाः । ७ । ३ । १३८ । आभ्यां नजादिभ्यश्च परो यो मेधाशब्दः, तदन्ताद् बहुव्रीहेरस स्थात | मन्दमेधाः अल्पमेधाः अमेधाः, सुमेधाः, दुर्मेधा ना ॥ १३८ ॥ जातेरीयः सामान्यवति । ७ । ३ । १३९ । जात्यन्ताद्बहुव्रीहेरीयः स्यात् सामान्याश्रयेऽन्यपदार्थे । ब्राह्मणजातीयः । सामान्यवतीति किम् ? बहुजातिर्ग्रामः ॥ ३९ ॥ भृतिप्रत्ययात् मासाद इकः | ७ | ३ | १४० | भृत्यर्थाद् यः प्रत्ययस्तदन्तात् परो यो मासः, तदन्ताद् बहुव्रीहेरिकः स्यात् । पञ्चको मासोऽस्य पञ्चकमासिकः । मासादिति किम् ? पञ्चकदिवसकः ॥ १४० ॥ द्विपदाद् धर्मादन् । ७ । ३ । १४१ | धर्मान्ताद् द्विपदाद्बहुव्रीहेरन् स्यात् । साधुधर्मा । द्विपदादिति किम् ? परमस्वधर्मः ॥ १४१ ॥ सु- हरित तृण-सोमात् जम्भात् | ७ | ३ | १४२ |
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy