________________
स्वोपज्ञलघुवृत्तिः [५८७) स्थूलवर्जात् खरखुराभ्यां च परस्या नासिकाया बहु. ब्रीही नसःस्यात्, नाम्नि गुणसः, खरणसः, खुरणसः। अस्थूलादिति किम ? स्थूलनासिकः ॥ १६१ ॥
उपसर्गात् । ७।३।१६२ । अस्मात् परस्या नासिकाया बहुव्रीही नसः स्यात् । प्रणसं मुखम् ॥ १६२ ॥
वेः खु-ख-अम् ७।३ । १६३ । वेरुपसर्गात् परस्या नासिकाया पहुव्रीहावेते स्युः। विखुः, विरवः, विग्रः ॥ १६३ ॥
जायाया जानिः। ७।३ । १६४ । जायाशब्दस्य जानिहुव्रीहो स्यात् । युवजानिः ।। व्युदः काकुदस्य लुक । ७ । ३ । १६५ ।
आभ्यां परस्यास्य बहुव्रीहो लुक् स्यात् । विकाकुत्, उत्काकुत् ॥ १६५ ॥
पूर्णाद् वा । ७ । ३ । १६६ । पूर्णात परस्य काकुदस्य बहुबी हो लुग् वा स्यात । पूर्णकाकुत , पूर्णकाकुदः ।। १६६ ।।
ककुदस्याऽवस्थायाम् । ७।३ । १६७।
अस्य बहुव्रीही वयसो गम्ये लुक् स्यात् । पूर्णककुद् युवा, अककुद् बालः ॥ १६७ ॥
'त्रिककुद् गिरौ । ७ । ३ । १६८।
१ त्रिणि ककुदाकाराणि शिखराण्यस्य त्रिककुद्, पर्वतविशेषः यो दक्षिणदेशेऽस्ति, उत्तररामचरित्रेऽपि वर्णितः ।