________________
.
.
स्वोपक्षलघुवृत्तिः [५७७] - ऋक्साम-ऋग्यजुष-धेन्वनड्डह-वाङ्मनसाऽ
होरात्र-रात्रिंदिव-नक्तंदिवाऽहर्दि
वोर्वष्ठीव-पदष्ठीवाऽक्षिभ्रव-दारग. वम् । ७।३। ९७। एते द्वन्द्वा अदन्ता निपात्याः । ऋक्सामे, ऋग्यजुषम् , धेन्वनडुहौ, वाङ्मनसे, अहोरात्रः, रात्रिंदिवम् , नक्तंदिवम् , अहर्दिवम् , ऊर्वष्ठीवम् , पदष्ठीवम् , अक्षिध्रुवम् , दारगवम् ॥ ९७ ॥
चवर्ग-द-ष-हः समाहारे ।७।३ १९८ । एतदन्तात् द्वन्द्वात् समाहारादित् स्यात् । वाक्त्व. चम् , संपद्विपदम् , वाक्त्विषम् , छत्रोपानहम् । समाहार इति किम् ? प्रावृट्शरभ्याम् ॥ ९८ ॥ - दिगोरन्नहनोऽट् ७।३। ९९ ।
अन्नन्तादहन्नन्ताच समाहारार्थाद द्विगोर स्यात् । पश्चतक्षी, पश्चतक्षम्. यहः । द्विगोरिति किम् ? ममतः ।।
दि-रायुषः । ७।३ । १०० । ... आभ्यां परो य आयुष्, तदन्तात् समाहारार्थाद् द्विगोरट् स्यात् । द्वयायुषम् , व्यायुषम् ।। १०० ॥
वाऽञ्जलेरलुकः ।७।३ । १०१। द्वित्रिभ्यां परो योऽञ्जलिः, तदन्ताद् द्विगोरट् व स्यात् , न चेद् द्विगुस्तद्धितलुगन्तः। द्वथञ्जलम्, द्वयञ्जलि । व्यञ्जलमयम् , व्यञ्जलिमयम् । अलुक इति किम् ? द्वयञ्जलिर्घटः ।। १०१॥