SearchBrowseAboutContactDonate
Page Preview
Page 781
Loading...
Download File
Download File
Page Text
________________ [५७६] हेमशब्दानुशासनस्य उपपौर्णमासम्, उपपौर्णमासि । उपाग्रहायणम् , उपा ग्रहायणि । उपसुचम् उपसुक ॥ ९० ॥ संख्याया नदी गोदावरीभ्याम् ।७।३ । ९१ । सङ्ख्यार्थात् परौ यावेतौ तदन्तादव्ययीभावादः स्यात् । पञ्चनदम् , द्विगोदावरम् ।। ९१ ।। शरदादेः । ७।३ । ९२ । शरदाद्यन्तादव्ययीभावादत् स्यात् । उपशरवम् , प्रतित्यदम् ॥ ९२॥ जराया जरस् च । ७।३ । ९३ । जरान्तादव्ययीभावादत् स्यात् , तद्योगे च जराया जरस् । उपजरसम् ।। ९३ ॥ - सरजसोपशुनाऽनुगवम् ।७।३।९४ । एतेऽव्ययीभावा अदन्ता निपात्या। सरजसं भुङ्क्ते, उपशुनमास्ते, अनुगवमनः ॥ ९४ ॥ जात-महद्-वृद्धादुक्ष्णः कर्मधारयात् ।७।३।९५। एभ्यः परो य उक्षा, तदन्तात् कर्मधारयादत् स्यात् । जातोक्षः, महोक्षः, वृद्धोक्षः, । कर्मधारयादिति किम् ? जातस्योक्षा जातोक्षा ॥ ९५ ॥ स्त्रियाः पुंसो द्वन्द्वाच्च ।७।३।९६ । स्त्रियाः परो यः पुमान् , तदन्तात् द्वन्द्वात् कर्मधार. याचाऽत् स्यात् । स्त्रीपुंसौ, स्त्रीपुंसः शिखण्डी ।। ९६॥ . , गामन्वायतमनुगवम् । “ दैयेऽनुः" (पृ. १३६) सूत्रात् समासः बना सटमित्यर्थः । .
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy