________________
स्वोपज्ञलघुवृत्तिः [५७५] वर्चसम् , हस्तिवर्चसम्, राजवर्चसम् , पल्यवर्चसम् ।।
प्रतेरुरसः सप्तम्याः ।७।३ । ८४ । प्रतिपूर्वात् सप्तम्यन्तोरसन्ताददन्तःस्यात् । प्रत्युरसम् । सप्तम्या इति किम् ? पत्युरः ॥ ८४ ॥ __ अक्ष्णोऽप्राण्यङ्गे । ७।३।। ८५।
अप्राण्यङ्गार्थादक्ष्यन्ताददन्तः स्यात् । लवणाक्षम् । अप्राण्यङ्ग इति किम् ? अजाक्षि ॥ ८५॥
सम्कटाभ्याम् । ७।३। ८६ । __ आभ्यां परादश्यन्तावदन्तः स्यात् । समक्षम् , कटाक्षः॥ ८६.॥
प्रति-परोऽनोव्ययीभावात् । ७।३। ८७ ।
प्रत्यादिपूर्गदक्ष्यन्तादव्ययीभावादत् स्यात् । प्रत्यक्षम् , परोक्षम् , अन्वक्षम् ॥ ८७ ॥
अनः। ७।३।८८ । अन्नन्तादव्ययीभावादः स्यात् । उपतक्षम् ॥ ८८॥
नपुंसकादा । ७।३। ८९ । अन्नन्तं यत् कलीयं तदन्तादव्ययीभावादद् वा स्यात् । उपचर्मम् , उपचर्म ॥ ८९ ॥ गिरि-नदी-पौर्णमास्याग्रहायण्यपञ्चम
वाद् वा । ७ । ३ । ९०। एतदन्तात पञ्चमवर्गवर्जवर्गान्ताचाव्ययीभावादद् वा स्यात् । अन्तर्गिरम् , अन्तर्गिरि। उपनदम् , उपनदि ।