SearchBrowseAboutContactDonate
Page Preview
Page 783
Loading...
Download File
Download File
Page Text
________________ हेमशब्दानुशासनस्य खार्या वा । ७ । ३ । १०२ । खार्यन्ताद् द्विगोरलकोऽद् वा स्पात । द्विखारम्, द्विखारि । पञ्चखारधनः, पञ्चखारीधनः ॥ १०२ ।। वाऽर्द्धाच्च । ७ । ३ । १०३ । अर्द्धात् परा या खारी, तदन्तात् समासादलुकोट् वा स्यात् । अर्द्धखारम् . अर्द्धखारी ॥ १०३ ॥ [५७८ ] नावः । ७ । ३ । १०४ । अर्थात् परो यो नौः, तदन्ताद् समासाद् द्विगोश्चाऽलुकोट् स्यात् । अर्द्धनावम्, अर्द्धनावी, पञ्चनावम् । अलुक इत्येव ? द्विनौः ॥ १०४ ॥ गोस्तत्पुरुषात् । ७ । ३ । १०५ । गवन्तात् तत्पुरुषादलुकोsट् स्यात् । राजगवी । तत्पुरुषादिति किम् ? चित्रगुः । अलुक इत्येव ! पञ्चगुः पटः ॥ १०५ ॥ राजन्-सखेः । ७ । ३ । १०६ । एतदन्तात् तत्पुरुषाद्द् स्यात् । पञ्चराजी, राजसखः॥ राष्ट्राSSख्याद् ब्रह्मणः । ७ । ३ । १०७ । राष्ट्रात परो यो ब्रह्मा, तदन्तात् तत्पुरुषादद् स्यात् । सुराष्ट्रब्रह्मः । राष्ट्राऽऽख्यादिति किम् ? देवब्रह्मा नारदः ॥ कु-महद्भ्यां वा । ७ । ३ । १०८ । आर्भ्यां परो यो ब्रह्मा, तदन्तात् तत्पुरुषादट् वा स्यात् । कुब्रह्मः, कुब्रह्मा । महाब्रह्मः, महाब्रह्मा ॥ १०८ ॥ ग्राम- कौटात् तक्ष्णः । ७ । ३ । १०९ ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy