________________
... स्वोपज्ञलघुतिः [५६७ ] . वोपादेरडाकौ च । ७ । ३ । ३६ ।
उपपूर्वादजात्यर्थाद् बहुवरात् नृनानोऽनुकम्पाया मडाको, इय इक इलाश्च वा स्युः। उपडः, उपका, उपियः, उपिकः, उपिलः, उपेन्द्रवत्तकः ॥ ३६ ॥ · ऋवर्णोवर्णात् स्वरादेरादेलुक प्रकृत्या
च। ७।३ । ३७ । ऋवर्णान्तोवर्णान्ताभ्यां परस्यानुकम्पोत्पन्नस्य स्वरादेः प्रत्ययस्याऽऽदेलक स्यात् , लुकि तु सति प्रकृतेः प्रकृतिः। मातृयः, मातृकः, मातृलः, वायुयः, वायुकः, वायुलः। स्वरादेरिति किम् ? मद्रबाहुकः ॥ ३७॥
लुक्युत्तरपदस्य कपन् । ७।३। ३८॥
नाम्नो यंदुत्तरपदं तस्य, "ते लग् वा” (पृ० १८२) इति लुकि सनि ततः कपन् स्यात् , अनुकम्पायां गम्यायाम् । देवदत्ता । लुकि, देवी । अनुकम्पिताऽसौ देवका। उत्तरपदस्पति किम् ? दत्तिका ॥ ३८॥
लुक चाऽजिनान्तात् । ७।३ । ३९ । __अजिनान्तात् नृनाम्नोऽनुकम्पायां कपन स्यात् , तद्योगे च लुगुत्तरपदस्य । व्याघ्रकः ॥ ३९ ॥ षड्व कस्वरपूर्वपदस्य स्वरे । ७ । ३ । ४० ।
षड्वर्जमेकस्वरं पूर्वपदं यस्य, तस्योत्तरपदस्यानुकम्पाऽथे स्वरादौ प्रत्यये लुक् स्यात् । अनुकम्पितो वागाशीः वाचियः । षड्वर्जेत्यादीति किम् ? उपेन्द्रेण दत्तः उपेन्द्र
१ कप्त इति प्रत्यये पकारानुबन्धः पुंवद्भावार्थः । नकारः "इच्चा..." (२-४-१०७) इत्यत्र पयुंदासार्थः ।