________________
[ ५६८ ]
हेमशब्दानुशासनस्य
दत्तः सोऽनुकम्पित उपडः, षडङ्गुलिस्तु षडियः । स्वर इति किम ? वागाशीदत्तकः ॥ ४० ॥
द्वितीयात् स्वरादृर्ध्वम् । ७ । ३ । ४१ । अनुकम्पार्थे स्वरादौ प्रत्यये प्रकृतेर्द्वितीयात् स्वरादूर्ध्वं लुक् स्यात् । देवियः ॥ ४१ ॥ सन्ध्यक्षरात् तेन । ७ । ३ । ४२ ।
अनुकम्पार्थे स्वरादौ प्रत्यये प्रकृतेर्द्वितीयात् सन्ध्यक्षरस्वरार्ध्वं तेन सन्ध्यक्षरेण सह लुक् स्यात् । कुबियः, कुहिकः ॥ ४२ ॥
शेवलाद्यादेस्तृतीयात् । ७ । ३ । ४३ । शेवलादिपूर्वपदस्य नृनाम्नोऽनुकम्पार्थे स्वरादौ प्रत्यये तृतीयात् स्वरादूर्ध्व लुक् स्यात् । शेवलियः, सुपरियः ॥ ४३ ॥
क्वचित् तुर्यात् । ७ । ३ । ४४ । अनुकम्पोत्पन्ने स्वरादौ प्रत्यये यथालक्ष्यं चतुर्थात स्वरादूर्ध्व लुकस्यात् । वृहस्पतियः । क्वचिदिति किम् १
उपडः ।। ४४ ।
पूर्वपदस्य वा । ७ । ३ । ४५ ॥ अनुकम्पाऽर्थे स्वरादौ प्रत्यये पूर्वपदस्य लुग वा स्यात् । दत्तियः, देवियः ॥ ४५ ॥
स्वे | ७ | ३ | ४६ |
१ आदितो गणनया यस्तृतीयः स्वरस्ततः परे एकोऽनेके वा वर्णास्तेषां लुक् स्यात् । अनुकम्पितः शेवलदत्तः इति शेत्रलिय इत्यत्र इये प्रत्यये परे तृतीयात् स्वरादूर्भस्थस्य दत्तइत्यस्य लुग्जातः ।