SearchBrowseAboutContactDonate
Page Preview
Page 766
Loading...
Download File
Download File
Page Text
________________ ॥ तृतीयः पादः॥ प्रकृते मयट् । ७।३।१। प्राचुर्येण प्राधान्येन वा कृतं प्रकृतम् । तदर्थात् साथै मयट् स्यात् । अन्नमयम्, पूजामयम् ॥१॥ स्मिन् । ७।३।२। प्रकृतार्थादस्मिन्निति च विषये मयट् स्यात् । अपूपमा पर्व ॥२॥ तयोः समूहवच्च बहुषु ।७।३ । ३ । प्रकृतेऽस्मिन्निति च विषययोर्षह्वात् समूह इस प्रत्ययः स्यात् , मयद च । आपूपिकम् , अपूपमयम् आपूपास्तपर्व वा ॥३॥ निन्ये पाशप् । ७।३।४। निन्द्यार्थात स्वार्थे पाशप्स्यात् । छान्वसपाश: ॥४॥ . प्रकृष्टे तमप् । ७।३।५। प्रकृष्टार्थात् तमप् स्यात् । शुक्लतमा, कारकतमः॥५॥ द्वयोर्विभज्ये च तरप् । ७।३।६। द्वयोर्मध्ये प्रकृष्टे विभज्ये च वर्तमानात् तरप स्यात्। पटुतरास्त्री, साइश्यकेभ्यः पाटलिपुत्रका आव्यतराः॥ क्वचित् स्वार्थे । ७।३।७। - यथालक्ष्यं स्वार्थे तरप् स्यात् । अभिन्नतरकम् , उच्चस्तराम् ॥७॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy