________________
हैमशदानुशासनस्य वाच इकण । ७।२।१६८॥ सन्विष्टार्थात् स्यात् । वाचिकं वक्ति ॥ १६८ ॥
विनयाऽऽदिभ्यः । ७।२ । १६९ । स्वर्थे इकर वा स्यात् । वैनयिकम् , सामयिकम् ॥
उपायाद हस्तश्च । ७।२ । १७०।। स्वार्थे इकश वा स्यात् , तद्योगे च ह्रस्वः। औपयि. कम् ॥ १७० ॥
मृदस्तिकः । ७।२।। १७१ । स्वार्थे वा स्यात् । मृतिका, मृत् ॥ १७१ ॥
सस्नौ प्रशस्ते । ७ । २ । १७२ । प्रशस्तार्थात् मृदा सस्नो वा स्याताम् । मृत्सा, मृत्स्ना ॥ १७३॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधा. नस्वोपज्ञशब्दानुशासनलघुवृत्तौ सप्तमस्याध्यायस्य
द्वितीयः पादः समाप्तः ॥७॥२॥