SearchBrowseAboutContactDonate
Page Preview
Page 764
Loading...
Download File
Download File
Page Text
________________ स्वोपशलघुति [५५९] नवा इन-तन-नं च नू चास्य । ७।२।१६०। नवात स्वार्थ एते यश्च वा स्युः, तद्योगे च नवस्य नूः। नवीनम् , नूतनम् , नूत्नम् , नव्यम् ॥ १६० ॥ प्रात् पुराणे नश्च । ७ । २ । १६१ । पुरागार्थात् प्रात न ईन-नाश्च स्युः। प्रगन , प्रीणम् , प्रतनम् , प्रत्न पुराणम् ॥ १६१ ॥ देवात् तल । ७ । २ । १६२ । स्वार्थे वा स्यात् । देवता ॥ १६२ ।। होत्राया ईयः।७। २ । १६३ । स्वार्थे वा स्यात् । होत्रीयम् ॥ १६३ ॥ भेषजादिभ्यः ट्यग। ७।२।१६४ । स्वार्थे वा स्यात् । भैषज्यम् , आनन्त्यम् ।।१६४॥ प्रज्ञाऽऽदिभ्योऽश | ७।२।१६५। स्वार्थेऽण् वा स्यात् । प्राज्ञः, वाणिजः ॥१६५ ॥ श्रोत्रौषधि-कृष्णात् शरीस्भेषज - मृगे । ७ । २ । १६६ ॥ एभ्यो यथासङ्ख्यं शरीराद्यर्थेभ्यः स्वार्थेऽण् वा स्यात् । श्रोत्रं वपुः, औषधं भैषजम् , काष्र्णो मृगः ॥ १६६॥ कर्मणः सन्दिष्टे । ७।२ । १६७ । सन्दिष्टार्थात् कर्मणः स्वार्थेऽण् वा स्यात् । अन्येना. न्योन्यस्मै यदाह त्वयेदं कार्यमिति तत्सन्दिष्टम् । कार्मणम् ॥ १६७ ॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy