________________
-
[१५८] हेमशब्दानुशासनस्य दण्डे वीप्सायां च विषयेऽकल स्यात् , तद्योगे च प्रकृतेर. न्तस्य लुक् । द्विपदिकां दत्ते दण्डिनो भुङ्क्ते वा । एवं द्विशतिकाम् ॥ १५२ ॥ तीयात् टीकण न विद्या चेत् । ७।२।१५३ ।
तीयान्तादविद्यार्थात् स्वार्थे टीकण वा स्यात् । द्वितीयम्, द्वैतीयीकम् । विद्या तु द्वितीया ॥ १५३ ॥ निष्फले तिलात् पिञ्ज-पेजौ। ७।२ । १५४ ।
निष्फलार्थात् तिलादेतौ स्याताम् । तिलपिञ्जः, तिलपेजः ॥ १५४ ॥
प्रायोऽतोयसट्-मात्रट् । ७ । २१५५/
अत्वन्तात् स्वार्थे एतौ स्याताम् , यथालक्ष्यम् । यावद वयसम् , यावन्मात्रम् ॥ १५५ ॥
वर्णाऽव्ययात् स्वरूपे कारः ।७।२।१५६। एभ्यः स्वरूपार्थेभ्यः कारो वा स्यात् । अकारः, ॐकारः। स्वरूप इति किम् ? अविष्णुः ॥ १५६ ॥
राद् एफः । ७।२।१५७।। वा स्यात् । रेफः । प्रायोऽधिकाराद् रकारः ॥१५७॥
नाम-रूप-भागाद् धेयः । ७।२।१५८। एभ्यः स्वार्थ धेयो वा स्यात् । नामधेयम् , रूषधेयम् , भागधेयम् ॥ १५८ ॥
मर्ताऽऽदिभ्यो यः । ७ । २ । १५९ । एम्यो यः स्यात् । मर्त्यः, सूर्यः ॥ १५९ ।।