________________
स्वोपज्ञलघुवृत्तिः [५५७] 'बह्वल्पार्थात् कारकादिष्टानिष्टे शम् |७१२।१५०
बह्वल्पार्थाभ्यां कारकवाचिभ्यां यथासङ्ख्यमिष्टेऽनिष्टे च विषये शस् पिद्वा स्यात् । इष्टं प्राशिवादि । अनिष्टं श्राद्धादि । ग्रामे बहवो बहुशो वा ददाति, एवं भूरिशः । अल्पमल्पशो वा धनं दते श्राद्धे, एवं स्तोकशः। इष्टानिष्ट इति किम् ? वहु दत्ते श्राद्धे, अल्पं प्राशिने ॥ १५ ॥ संख्यैकार्थाद वीप्सायां शस् ।७।२।१५१ ।
सङ्ख्यैकार्थाभ्यां कारकार्थाभ्यां वोप्सायां द्योत्यनानायां शस् वा स्यात् । एकैकमेकशो वा दत्ते, मा माष माषशो वा देहि । संख्यैकार्थादिति किम् ? माषौ माषौ दत्ते । वीप्सायामिति किम् ? द्वौ दत्ते ॥ १५१ ॥ सङ्ख्याऽऽदेः पादादिभ्यो दानदण्डे चाकल लुक
च । ७.।२।१५२ । सङ्ख्यार्थादवयवात् परे ये पादादयः, तदन्ताद् दाने , षष्टीव बह्वार्थानां प्रथमाऽऽदिसर्व विभक्तिवाचिभ्याम शस स्यात् , षष्ठयाः सम्बन्धजत्वेन कारकत्वाभावात् निषेधः । प्रभूतान् स्तोकान् वा अन्यान् पठतीति प्रभूतशः, स्तोडशो वा ग्रन्थान् पठ.ते । बहुभिदृष्टं बहुशो दृष्टम् । बहुभ्यो ददाति बहुशो ददाति । बहुभ्यो वृक्षेभ्यः पतति बहुशो क्षेभ्यः प्रतति । बहुषु गृहेषु वर्तते इति बहुशो गृहेषु वर्तते । षष्ठया निषेधाद् बहूनामल्लानां वा स्वामीति बाक्यमेव स्यात् । एवं बह्वर्थेभ्योऽल्पार्थेभ्यश्च प्रभूतस्तोकादेभ्यः षट्सु विभक्तिषु प्रयोगा भवन्ति । पित्वात् स्त्रीलिङ्गेभ्योऽपि ।
२ एफस्य संख्यागत्वेऽपि एकत्ववि शष्टवस्तुपहणाय सूत्रे पृथक् पाठः। “एकैकमेकशो वा दते' इ संख्योदाहरगम् , एकत्वस्य संख्यात्वाद् 'माषशो देहि, इति तु एकत्वविशिष्टवस्तुन उदाहरणम् । एवं द्विश., पञ्चशः, तावच्छः, कतिशः, गगशः, पगश इति संख्याथै कार्योदाहरगानि । शताऽभावे "वीप्सायाम्" (७-४-८०) इति द्वित्वम् । “प्लुम् चाहावे कस्य स्यादेः' (७-४-८१) इत्यनेन एकस्य स्यादेः पित्लर स्यात् तेनैकैमिति सिध्यति ।