SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ [५५६] हैमशब्दानुशासनस्य भद्रा कसेति नापितः । वपन इति किम् ? मद्रं करोति, भद्रं करोति साधुः ॥१४४॥ अव्यक्ताऽनुकरणाद् अनेकस्वरात् कृम्वस्तिना अनितौ द्विश्च | ७।२। १४५ । यस्मिन् ध्वनौ वर्णा विशेषरूपेण नाऽभिव्यज्यन्ते सोऽव्यक्तः । तदनुकरणार्थादनेकस्वराद् अनितिपरात् कम्वस्तियोगेडाच् वा स्यात् , द्विश्चास्य प्रकृतिः । पटपटा करोति भवेत् स्याद्वा । अनेकस्वरादिति किम् ? खाद करोति ।अनिताविति किम् ? पटिति करोति ॥१४५॥ इतावतो लुक् । ७.।२।१४६ । अव्यक्तानुकरणस्यानेकस्वरस्य योऽदिति, तस्येति शब्दे लुक् स्यात्। पटिति ॥ १४६॥ न द्वित्वे ।७।२।१४७ अव्यक्तानुकरणस्यानेकस्वरस्य द्वित्वे सति इतौ परेऽतो लुक् न स्यात् । पटत्पटदिति ॥१४७॥ . तोवा । ७।२।१४८। द्वित्वेऽव्यक्तानुकरणस्यानेकस्वरस्यातस्तो लुग्वा स्यात् । पटत्पटेति करोति, पटत्पटदिति वा ॥ १४८॥ ___डाच्यादौ । ७।२। १४९ । अध्यक्तानुकरणस्यानेकस्वरस्याच्छब्दान्तस्य द्वित्वे सालि आवतस्तो डाचि लुक् स्यात् । पेटपटा करोति। आदाविति किम् ? पतपता करोति॥१४९ ॥ "अव्यक्ताऽनु..." इति द्वित्वम् । डाबो उित्त्वात् "डित्यन्त..." देतो हुन्छ ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy