SearchBrowseAboutContactDonate
Page Preview
Page 760
Loading...
Download File
Download File
Page Text
________________ R स्वीपज्ञलघुवृत्तिः . [५५५] . सपत्र-निष्पत्राद् अतिव्यथने ।७।२। १३८ __ आभ्यां कुग्योगेऽतिपीडने गम्येडाच स्यात् । सपत्राकरोति मृगम् , निष्पत्रा करोति । अतिव्यथन इति किम् ? सपत्रं करोति तरं सेकः ॥ १३८ ॥ निष्कुलात् निष्कोषणे । ७ । २ । १३९। अस्मात कृग्योगे निष्कोषणेऽर्थे डाच् स्यात् । निष्कुला करोति दाडिमम् । निष्कोषण इति किम् ? निष्कुलं करोति शत्रुम् ॥ १३९ ॥ प्रिय-सुखादानुकूल्ये । ७ । २ । १४०।। - आभ्यां करयोगे आनुकूल्ये गम्ये डान् स्यात् । प्रिया करोति, सुखा करोति गुरुम् । आनुकूल्य इति किम् ? प्रियं करोति साम, सुखं करोति पौषधव्रतम् ॥ १४ ॥ दुःखात् प्रातिकूल्ये ।७।२।१४१ । दुःखात् प्रातिकूल्ये गम्ये कृग्योगे डाच् स्यात् । दुःखा करोति शत्रुम् । प्रातिकूल्य इति किम् ? दुःखं करोति रोगः । १४१ ॥ शलात् पाके।७।२१४२। शुलात् पाके गम्ये कुग्योगे डाच् स्यात् । शूला करोति मांसम् ॥१४२ ॥ सत्यादशपथे। ७।२ । १४३। अशपथात् सत्यात् कृपयोगे डान् स्यात् । सत्या करोति वणिग् भाण्डम् । अशपथ इति किन ? सत्यं करोति शपथमित्यर्थः।। १४३॥ मद्र-भद्रादु वपने । ७।२।१४४ । आभ्यां मुण्डने गम्ये कृग्योगेडान्स्यात्। मद्रा करोति
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy