________________
हेमशब्दानुशासनस्य
तत्राऽधीने । ७ । २ । १३२ ॥
तत्रेति इयन्ताद आयत्तेऽथं कृस्वस्तिसम्पयोगे सात् स्यात् । राजसात्करोति, राजसाद्भवति, राजसात् स्यात् । राजसात् सम्पद्यते ॥ १३२ ॥ देये त्रा च । ७ । २ । १३३ ।
[५५४]
यता देये आयत्तेऽर्थं कृम्बस्तिसम्पयोगे त्रा स्यात् । देवत्रा करोति द्रव्यम्, देवत्रा भवेत स्यात् सम्पद्यते वा । देय इति किम् ? राजसात स्यात् राष्ट्रम् ॥ १३३ ॥ सप्तमी - द्वितीयाद देवाऽऽदिभ्यः । ७ । २ । १३४ । एभ्यो ज्धमन्तेभ्यः स्वार्थे त्रा स्यात् । देवन्ना वसेत, भवेत्, स्यात, करोति वा, एवं मनुष्यत्रा ॥ १३४ ॥ तीय शम्ब - बीजात कृगा कृषौ डा | ७ | २ | १३५ ॥
तीयान्तात शम्बबीजाभ्यां च कृग्योगे कृषि विषये डाच स्यात् । द्वितीया करोति शम्बा करोति, बीजा करोति क्षेत्रम् । कृषात्रिति किम् १ द्वितीयं पटं करोति ॥
सङ्ख्याऽऽदेर्गुणात् । ७ । २ । १३६ ।
सङ्ख्याया आद्यवयवात् परो यो गुणः तदन्तात कृग्योगे कृषि विषये डाच् स्यात् । द्विगुणा करोति क्षेत्रम् ॥ १३६ ॥
समयाद् यापनायाम् | ७ | २ | १३७ |
अस्मात् कालक्षेपे गम्ये कृग्योगे डाच् स्यात् । समया
करोति कालं क्षिपतीत्यर्थः ॥ १३७ ॥