SearchBrowseAboutContactDonate
Page Preview
Page 756
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः पूर्वाऽवराऽधरेभ्योऽसस्तातौ, पुर्-अव्-अधचैषाम् । ७ । २ । ११५ । एभ्यो दिग्देशकालार्थेभ्यः सिङसिङयन्तेभ्योऽस्, अस्तात् च स्यात्, एषां च यथासङ्ख्यं पुर, अव्, अधू च । पुरः, अवः, अधः, पुरस्तात्, अवस्तात्, अधस्तात् रम्यमागतो वासो वा ।। ११५ ।। परोऽवरात् स्तात् । ७ | २ | ११६ । आभ्यां दिगाद्यर्थाभ्यां प्रथमाद्यन्ताभ्यां स्वार्थे स्तात् स्यान् । परस्तात्, अवरस्तात् रम्यमागतो वासो वा ॥११३॥ दक्षिणोत्तरात् चातम् । ७ | २ | ११७ | आभ्यां परावराभ्यां च दिगाद्यर्थाभ्यां प्रथमाद्यन्ताभ्यां स्वार्थेऽतस् स्यात् । दक्षिणतः, उत्तरतः परतः, अवरतो रम्यमागतो वासो वा ॥ ११७ ॥ [५५१] अधराऽपरात् चाऽऽत् । ७ । २ । ११८| आभ्यां दक्षिणोत्तराभ्यां च दिगाद्यर्थाभ्यां प्रथमायन्ताभ्यामात् स्यात् । अधरात, पश्चात्, दक्षिणात्, उत्तरात् रम्यमागतो वासो वा ।। ११८ ।। वा दक्षिणात प्रथमा-सप्तम्या आः । ७ । २ । ११९ । अस्माद् दिग्देशार्थात् सिज्यन्ताद् आ वा स्यात् । दक्षिणा, दक्षिणतः, दक्षिणाद्रम्यं वासो वा ॥ ११९ ॥ आहो दूरे । ७ । २ । १२० । दूरदिग्देशार्थात् सिङयन्ताद् दक्षिणादा, आहिश्च स्यात् । ग्रामाद् दक्षिणा, दक्षिणाहि रम्यं वासोवा ॥ १२० ॥ वोत्तरात् । ७ । २ । १२१ | दिगाद्यर्थादस्मात सिङयन्तादा, आहिश्च वा स्यात् ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy