________________
[ ५५० ]
हैमशब्दानुशासनस्य
वारे कृत्वस् । ७ । २ । १०९ । वारवृत्तः सख्यार्थाद् वारवति धात्वर्थे कृत्वस् स्यात् । पञ्चकृत्वो भुङ्क्ते ॥ १०९ ॥ द्वि-त्रि- चतुरः सुच् । ७ । २ । ११० 1 एभ्यो वारार्थेभ्यस्तद्वति सुच् स्यात् । द्विः, त्रिः, चतुः भुङ्क्ते ॥ ११० ॥
एकात् सकृच्चास्य । ७ । ३ । १११ । अस्माद् वारार्थात् तद्वति सुच् स्यात्, सकृच्चाऽस्य । सकृद् भुङ्क्ते ॥ १११ ॥
बहोर्धाssसने । ७ । २ । ११२ ।
बहोः सङ्ख्यार्थाददूरवारार्थात तद्वति धा स्यात् । बहुधा भुङ्क्ते ॥ ११२ ॥
दिक्शब्दाद दिग्- देश - कालेषु प्रथमा-पञ्चमीसप्तम्याः । ७ । २ । ११३ ।
दिशि दृष्टाद् दिगाद्यर्थात् सिङसिङयन्तात् स्वार्थे धा स्यात् । प्राची दिग् रम्या प्राग्रम्यर्स्, प्राग् देशः कालो वा रम्यः प्राग्रम्यम्, प्राच्या दिशो देशकालाभ्यां वा आगतः प्रागागतः, प्राच्यां दिशि देशकालयोर्वा वासः प्राग्वासः ॥ ॥ ११३ ॥
ऊर्ध्वाद् रि-रिष्टातौ उपश्चास्य । ७ । २ । ११४ । ऊर्ध्वाद दिग्देशकालार्थात् सि·ङसिङयन्तादेतौ स्याताम्, उपश्चोर्ध्वस्य । उपरि, उपरिष्टात् रम्यं आगतो वासो वा ॥ ११४ ॥
१ अत्र “लुत्रञ्चेः " सूत्राद् धाप्रत्ययस्य लुन् स्यात् । लुपि ङीलुक् च ।