________________
स्वोपज्ञलघुवृत्तिः
[ ५३५ ]
अतोऽनेकस्वरात् । ७ । २ । ६ । अदन्तादनेकस्वरात् मत्वर्थे इकेनौ स्थाताम् । दण्डिकः, दण्डी, दण्डवान्, छत्रिकः, छत्री, छत्रवान् । अनेकस्वरादिति किम् ? खवान ॥ ६ ॥
अशिरसोऽशीर्षश्च । ७ | २|७| अस्मात् मत्वर्थे इकेनौ स्याताम्, मतुश्च, तद्योगे चास्याशीर्षः । अशीर्षिकः, अशीर्षी, अशीर्षवान् ॥ ७ ॥ 'अर्थाऽर्थाऽन्तादभावात् । ७ । २ । ८ । अर्थादर्थान्ताच्च भावार्थादेव मत्वर्थे इकेनावेव स्थाताम् । अर्थिकः, अर्थी, प्रत्यर्थिकः, प्रत्यर्थी । मतुर्न स्यात् । भावादिति किम् ? धनार्थात मतुरेव, अर्थवान् ॥ ८ ॥ - तुन्दाऽऽदेरिलश्च । ७ । २ । ९ ।
आभ्यां मत्वर्थे इल इकेनौ च स्युः । शालिल:, शालिकः, शाली, शालिंमान्, तुन्दिलः, तुन्दिकः, तुन्दो, तुन्दिवान्, उदरिलः, उदरिकः, उदरी, उदरवान् ॥९॥ स्वाङ्गाद विवृद्धात् । ७ । २ । १० । अस्मात् मत्वर्थे इलेकेनाः स्युः । कर्णिलः, कर्णिकः, कर्णी, कर्णवान् ॥ १० ॥
वृन्दादारकः । ७ । २ । ११ ।
१ भावार्थ प्रत्ययान्तादर्थ शब्दात् तदन्ताच्च शब्दात् इक - इनौ स्तः, न मतुः । अर्थमर्थ इति भावप्रत्ययान्तो ऽर्थशब्दः । ततोऽर्थोऽस्यास्ति सोऽर्थी उपयाचनावान् इत्यर्थः । प्रत्यर्थी इत्यर्थान्तस्योदाहरणम् । धनादिवाचकाद् अर्थशब्दात नेतौ स्तः, किन्तु मतुरेव स्यात्, अर्थवान् इति । मत्वन्तात् पुनर्न मतुर्भवति । उक्तं च-शैषिकात शैषिको नेष्टः सरूपः प्रत्यन: क्वचित्,
समानवत्तौ मत्वर्थात् मत्वर्थीयोऽपि नेष्यते ॥
२ विवृद्धात् महतः । ते पूर्वोक्ता इल-इक-इन-मतवः प्रत्ययाः ।