SearchBrowseAboutContactDonate
Page Preview
Page 739
Loading...
Download File
Download File
Page Text
________________ ॥ द्वितीयः पादः॥ तदस्याऽस्त्यस्मिन्निति मतुः ।७।२।१।। तदिति स्यन्ताद्, अस्येति षष्ठयर्थेऽस्मिन्निति ड्यर्थे वा मतुः स्यात् , चेत् स्यन्तमस्तीति । गोमान् , वृक्षवान गिरिः। अस्तीति किम् ? गावोऽस्याऽऽसन् । इतः प्रायो मत्वादयः ॥१॥ आ यात् । ७।२।२। "रूपात् प्रशस्ताऽऽहतात्" (७-२-५४) इति आ य. विधेर्वक्ष्यमाणप्रकृतिभ्यो मतुः स्यात्, तदस्यास्ति तदस्मिनस्तीति विषये । कुमारीमान् , बीहिमान् ॥ २॥ नावादेरिकः । ७।२।३। ___एभ्यो मत्वर्थे इकः स्यात् । नाविकः, नौमान् । एवं कुमारिका, कुमारीमान् ॥ ३॥ शिखाऽऽदिभ्य इन् । ७।२।४ । एभ्यो मत्वर्थे इन् स्यात् । शिखी, शिखावान्। माली, मालावान् ॥ ४॥ वीह्यादिभ्यस्तौ । ७।२।५। एभ्यो मत्वर्थे इकेनौ स्याताम् । व्रीहिकः, बीही, बीहिमान , मायिका, मायी, मायावान् ॥५॥ १ अस्तिकथना वर्तमानसत्तायामेव प्रत्ययो भवति. न भूतभविष्यत्सत्तायाम् । गौर्गावौ गावो वाऽस्यास्ति स्तः सन्तीति वा गोमान् इति षष्ट्यर्थस्म, वृक्षवान् गिरिरिति च अस्मिनिति व्यर्थस्योदाहरणम् । भूमादिष्वर्थेषु मतु इक-इनादयस्त दस्याऽस्त्यस्मिन्नित्यर्थे स्युः । यथोक्तम् भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । .. संसर्गेऽस्तिविवक्षायां प्रायो मत्वादयो मता ॥..
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy