SearchBrowseAboutContactDonate
Page Preview
Page 736
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [५३१] उदरे विकण आयुने । ७।१ । १८१ । अस्माद् ड्यन्तात् सक्ते आनेऽर्थे इकग् स्यात् । औदरिकः, उदरकोऽन्यः ॥ १८१ ॥ अंशं हारिणि । ७।१ । १८२।। अंशादमन्तात् हारिण्यर्थेकः स्यात्। अंशको दायादः ॥ १८२ ॥ तन्त्राद् अचिरोद्धृते ।७।१ । १८३ । तन्त्रात् पञ्चम्यन्ताद् अचिरोद्धृतेऽर्थे कास्यात् । तन्त्रका पटः॥ १८३॥ . ब्राह्मणात् नाम्नि । ७।१ । १८४ । अस्मात् उस्यन्तादचिरोधृतेऽर्थे कः स्यात, नाम्नि । ब्राह्मणको नाम देशः ॥ १८४ ॥ उष्णात् । ७.१ । १८५। -: उष्णात् डस्यन्तादचिरोद्धृतेऽर्थे का स्यात् , नाम्नि । उष्णिका यवागूः ॥ १८५ ॥ शीताच्च कारिणि । ७।१ । १८६ ।। शीतोष्णाम्यामांदमन्ताभ्यां कारिण्यर्थे का स्यात् , नाम्नि । शीतकोऽलसः, उष्णको दक्षः ॥ १८६ ॥ ... . अधेरारूढे ।७।१।१८७।। अधेरारूढार्थात् स्वार्थे क: स्यात् । अधिको द्रोणः खार्याः, अधिका खारी द्रोणेन ॥ १८७ ॥ __ अनोः कमितरि । ७।१।१८८। अनोः का स्यात् , तदन्तश्चेत् कमितरि । अनुके॥ . . अनुकामयतेऽनुकः । एवमुत्तरसूत्रे अभिकामयतेऽमीक इतिविग्रहः । दीपेकारश्च ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy