________________
[ ५३० ]
हैमशब्दानुशासनस्य
इन्द्राद इयो निपात्यः । इन्द्रस्य लिङ्गमिन्द्रियम् ॥ तेन वित्ते चञ्चु चणौ । ७ । १ । १७५ । तेनेति दान्ताद् वित्ते एतौ स्याताम् । विद्याचञ्चुः, केशचणः ॥ १७५ ॥
पूरणाद् ग्रन्थस्य ग्राहके को लुक्वाऽस्य । ७ । १ । १७६ |
पूरणप्रत्ययान्तात् दान्ताद् ग्रन्थस्य ग्राहकेऽर्थे कः स्यात्, तद्योगे च पूरणार्थस्य लुक । द्विकः शिष्यः ॥ ग्रहणाद वा । ७ । १ । १७७ ।
गृह्यतेऽनेनेति ग्रहणम् । रूपादिग्रन्थस्य ग्रहणार्थात् पूरणप्रत्ययान्तात् कः स्वार्थे स्यात्, तद्योगे च पूरणार्थस्य लुगू वा । द्विकं द्वितीयकं वा ग्रन्थग्रहणम् ॥ ९७७ ॥
सस्याद् गुणात् परिजाते । ७ । १ । १७८ । सस्याद् गुणार्थात टान्तात् परिजातेऽर्थे कः स्यात् । सस्यकः शालिर्देशो वा । गुणादिति किम् ? सस्येन परिजातं क्षेत्रम् ॥ १७८ ॥
धन - हिरण्ये कामे | ७ | १ | १७९ | आभ्यां डेयन्ताभ्यां कामेऽर्थे कः स्यात् । धनकः, हिरण्यको मैत्रस्य ।। १७९ ॥
स्वाङ्गेषु सक्ते । ७ । १ । १८० ।
स्वाङ्गार्थेभ्यो ङयतेभ्यः सक्तेऽर्थे कः स्यात् । नखकः, केशनखकः दन्तोष्ठकः ॥ १८० ॥
१ सप्तम्यन्ताभ्याम् । एवमुत्तरत्राऽपि धने कामो धनको मैत्रस्य । कामोऽभिलाषः ।