________________
[५३२]
हेमशब्दानुशासनस्य अमेरीश्च वा । ७।१ । १८९ । अमेका स्यात् , ईश्वाऽस्य वा, तदन्तश्चेत् कमितरि । अभिकः, अभीकः ॥ १८९॥
सोऽस्य मुख्यः । ७।१ । १९० । स इति स्यन्ताद् अस्येति षष्ठयर्थे कः स्यात् , स्यन्तं चेत् मुख्यार्थम् । देवदत्तकः सङ्घः ॥ १९ ॥
· शृहलकः करमे।७।१ । १९१ । कान्तो निपात्यः। शृङ्खलकः करभ उष्ट्रशिशुः॥१९१॥
उत्सोरुन्मनसि । ७।१ । १९२।। आभ्यामस्वेति उन्मनस्यर्थे का स्यात्। उत्का, उत्सुकेः॥
काल-हेतु-फलादु रोगे । ७।१ । १९३ । कालविशेषार्थेभ्यो, हेत्वर्थेभ्यः, फलार्थेभ्यश्च स्यन्तेभ्योऽस्येति रोगेऽर्थे कः स्यात् । द्वितीयको ज्वरः, पर्वतको रोगः, शीतको ज्वरः ॥ १९३ ॥
प्रायोऽन्नमस्मिन नाम्नि । ७।१।१९४ । स्यन्तादस्मिमिति उवर्षे संज्ञाविषये का स्यात् , स्यन्तं चेदन्नं पाषेण । गुडापूपिका पौर्णमासी ॥१९॥
कुल्माषादग । ७।१ । १९५ । अस्मात् स्यन्तात् प्रायोऽनमस्मिन्नित्यर्थेऽम् स्यात् , नाम्नि । कोल्माषी, पौर्णमासी ॥ १९५ ॥ १ उद्ग मनोऽस्य स उत्कः । उत्सुगतं मनोऽस्य स उत्सुक उत्कण्ठित इत्यर्थः । १ द्वितीयो दिवस उत्पत्तिकालोऽस्य द्वितीयको ज्वरः । भरोगे तु वाक्यमेव । हेतुः प्रयोजनम् । फलं परिणामः ।