SearchBrowseAboutContactDonate
Page Preview
Page 725
Loading...
Download File
Download File
Page Text
________________ [५२०] हेमशब्दानुशासनस्य तस्य तुल्ये कः संज्ञा प्रतिकृत्योः । ७ । १ । १०८। __तस्येति षष्ठयन्तात तुल्येऽर्थे कः स्यात् , संज्ञायां प्रतिकृतौ च विषये । अश्वकः, अश्वकं रूपम् ॥ १०८ ॥ न नृ-पूजाऽर्थ-ध्वज-चित्रे । ७।१ । १०९। नरि, पूजार्थे, ध्वजे, चित्रकर्मणि चार्थे को न स्यात् ।.. चश्चा ना, अर्हन् , ध्वजे सिंहः, चित्रे भीमः ॥१०९॥ अपण्ये जीवने । ७।१ । ११०। जीव्यते येन तस्मिन् पण्यवर्जे को न स्यात् । शिवः। अपण्य इति किम् ? हस्तिकान् विक्रीणीते ॥११० ॥ देव-पथाऽऽदिभ्यः । ७ । १ । १११ । एभ्यस्तुल्ये संज्ञाप्रतिकृत्यो को न स्यात् । देवपथः, हंसपथः ॥ १११॥ 'बस्तेरेयञ् । ७।१ । ११२॥ बस्तेस्तस्य तुल्येऽर्थे एयज स्यात् । षास्तेपी प्रणा. लिका ॥ ११२॥ शिलाया एयच्च । ७।१।११३ । अस्मात् तस्य तुल्येऽथे एयच् एयञ् च स्यात् । शिले. यम् , शैलेयं दधि ॥ ११३॥ शाखाऽऽदेयः। ७।१। १२४ । एभ्यस्तस्य तुल्ये या स्यात् ।शाख्यः, मुख्यः ।। ११४ ॥ १ शिवप्रतिकृत्या देवलोको जीवतीत्यर्थे । शिवस्य तुल्यः शिवः । पण्यं विक्रेतव्यम् , तद्भिन्ने जीवने । २ देवपथेन तुल्यो देवपथ इत्यादि । देवपयादिराकृतिगणः । ३ अत्र सूत्रे तस्य तुल्य इत्यनुवर्तते, न संज्ञाप्रतिकृत्योरिति । बस्तिरिति वादि. दृश्यतेऽन्यत्र ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy