________________
स्वोपज्ञलघुवृत्तिः [५२१] द्रोभव्ये । ७। १ । ११५। .... दोस्तस्य तुल्ये भव्येऽर्थे यः स्यात् । द्रव्यमयं ना, स्वर्णादि च ॥ ११५ ॥
कुशाग्राद ईयः । ७। १ । ११६ । अस्मात् तस्य तुल्ये ईयः स्यात् । कुशाग्रीया बुद्धिः।।
काकतालीयाऽऽदयः ।७।१ । ११७ । एते तस्य तुल्ये ईयान्ताः साधवः स्युः । काकताली. यम् , खलतिबिल्वीयम् ॥ ११७ ॥
शर्कराऽऽदेरण । ७ । १ । ११८॥ एभ्यस्तस्य तुल्येऽण् स्यात्। शार्करं दधि, कापालिकम् ॥ ११८ ॥
अः सपल्याः । ७।१। ११९ । अस्मात् तस्य तुल्ये अः स्यात् । सपत्नः ॥ ११९ ।।
एकशालाया इकः । ७।१। १२० अस्मात् तस्य तुल्ये इकः स्यात् । एकशालिकम् ॥
गोण्यादेश्वेकण । ७।१ । १२१ । एभ्य एकशालायाश्च तस्य तुल्ये इकण स्यात् । गौणिकम् , आङ्गुलिकम् , एकशालिकम् ॥ १२१ ॥
कर्कलोहितात् टीकण च । ७ । १ । १२२ ।
आभ्यां तस्य तुल्ये टीकम् इकम् च स्यातः। कार्कीकः, कार्किकः, लौहितीका, लौहितिकः ॥ १२२ ॥
वेविस्तृते शाल-शङ्कटौ । ७।१।१२३॥ वेर्विस्तृतेऽर्थे शालशङ्कटौ स्याताम् । विशाल,
६६