SearchBrowseAboutContactDonate
Page Preview
Page 724
Loading...
Download File
Download File
Page Text
________________ स्वोपालघुधि [५१९] अध्वन्यः, अश्वनीनः ॥१०३॥ अभ्यमित्रमीयश्च । ७।१।१०४। अस्मादमन्ताद अलङ्गामिनि ईयो य ईनौ च स्याताम् । अभ्यमित्रीयः, अभ्यमित्र्यः, अभ्यमित्रीणः ॥ १०४ ॥ 'समांसमीनाऽद्यश्वीनाऽधपातीनाऽऽगवीनसा . प्तपदीनम् । ७ । १ । १०५ । एते ईनान्ता निपात्याः, साप्तपदीनस्त्वीनअन्तः । समांसमीना गौः, अद्यश्वीना गौः, अद्यप्रातीनो लाभ: आगवीनः कर्मकृत् , साप्तपदीनं सख्यम् ॥ १०५ ॥ अषडक्षाऽऽशितंग्खलङ्कर्माऽलंपुरुषाद् ईनः ७१।१०६। ____ एभ्यः स्वार्थे ईन: स्यात् । अषडक्षीणो मन्त्रः, आशितंगवीनं अरण्यम् , अलङ्कर्मीणा अलंपुरुषीणः ॥१०६॥ __ अदिस्त्रियां वाऽञ्चः।७।१।१०७। अञ्चत्यन्तात् स्वार्थे ईनो वा स्यात् , न द स दिशि स्त्रियाम् । प्राचीनम् , प्राक । प्राचीमा शाखा, प्राची। अदिस्त्रियामिति किम् ? प्राची दिक् ॥१०७॥ . १ अभ्यमित्रं अलङ्गामी अभ्यमित्रीयः । २ समा समामिति वीप्सया द्वितीयाम्ताद् गर्भ धारयतीत्यर्थे निपाते समां समीना गौः । अद्य श्वो वा विजनिष्यमाणा अद्यश्वीना गौः, प्रत्यासन्नप्रसवकालेत्यर्थः । एवमद्यश्वीनो मृत्युलाभो भोगो वेत्यादि । अद्य प्रातर्वा भविष्यति अद्यप्रातीनो लामः । भागोप्रतिदानं कारी आगवीनः । सप्तभिः पदैरवाप्यते साप्तपदीनं सख्यं मैत्री मित्रं च । अित्वाद् वृद्धिः । ३ अविद्यमानानि षट् लक्षीणि अस्मिन् बमंत्रः कंदुको वा । स्त्रियां अषडक्षीणा कोडेति, सामान्येन्द्रियार्थे वाऽक्षशब्दः । आशिता गावोऽस्मिनिति । अलं कर्मणे पुरुषाय वाऽलमिति अलकर्मीणेत्यादि, "प्रात्यव..." (पृ० १३९) इति समासः ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy