________________
[५१८] हेमशब्दानुशासनस्थ
अनुपदं बद्धा ।। १ । ९६ । अस्मादमन्तात् बद्धेत्यर्थे ईमः स्यात् । अनुपदीनोपानत् ॥९६॥
अयानयं नेयः । ७।१ । ९७ । अस्माद् द्वितीयान्तात् नेयेऽर्थे ईनः स्यात् । अयान.. यीनः शारः ॥ ९७ ॥
सर्वाऽन्नमत्ति । ७।१ । ९८।। अस्मादन्नन्ताद् अत्त्यर्थे ईनः स्यात् । सर्वान्नीनो मिक्षुः ।। ९८ ॥ परोवरीण-परम्परीण-पुत्रपौत्रीणम् ।७।१ । ९९।।
एतेऽनुभवत्यर्थे ईनान्ता निपात्याः । परोवरीणः, परम्परीणः, पुत्रपौत्रीणः ॥ ९९ ॥ यथाकामाऽनुकामाऽत्यन्तं गामिनि ।७।१।१०।
एभ्योऽमन्तेभ्यो गामिन्यर्थे ईनः स्यात् । यथाकामीनः, अनुकामीनः, अत्यन्तीमः ॥१०॥ पारावारं व्यस्त व्यत्यस्तं च । ७।१ । १०१ । अस्मात् समस्तादू व्यस्ता व्यत्यस्ताचामन्ताद गामि. नीना, स्यात् । पारावारीणा, पारीणा, अवारीणा, अवारपारीणः ॥ १०१॥
अनुग्वलम् ।७।१।१०२। अस्मादमन्ताद् अलङ्गामिनि ईन: स्यात। अनुगवीनो गोपः॥ १०२॥
अध्वानं येनौ ।७।१।१०३। . अस्मादमन्तादू अलङ्गामिनि यईनौ स्याताम् ।