SearchBrowseAboutContactDonate
Page Preview
Page 718
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः सखि-वणिग्-दूताद् यः । ७ । १ । ६३ । एभ्यस्तस्य भावे कर्मणि च यः स्यात् । सख्यम्, सखित्वम्, सखिता, वणिज्या, वणिकत्वम्, वणिक्ता, वाणिज्यम्, दूत्यम्, दूतत्वम्, दूतता, दौत्यम् ॥ ६३ ॥ स्तेनात् नलुक् च । ७ । १ । ६४ । स्तेनात् तस्य भावे कर्मणि च यः स्यात्, तद्योगे च नस्य लुक् । स्तेयम्, स्तेनत्वम्, स्तेनता, स्तैन्यम् ॥ कपि ज्ञातेरेयण् । ७ । १ । ६५ | आभ्यां तस्य भावे कर्मणि चैयण् स्यात् । कापेयम्, कपित्वम्, कपिता, ज्ञातेयम्, ज्ञातित्वम्, ज्ञातिता ॥ प्राणिजाति-वयोऽर्थाद | ७ | १ | ६६ | प्राणिजात्यर्थात् बयोsर्थाच्च तस्य भावे कर्मणि चाव् स्यात् । आश्वम्, अश्वत्वम्, अश्वता, कौमारम्, कुमारत्वम्, कुमारता ॥ ६६ ॥ [५१३] युवादेरण । ७ । १ । ६७ । एतस्य भावे कर्मणि चाण् स्यात् । यौवनम् युवत्वम्, युवता, स्थाविरम्, स्थविरत्वम्, स्थविरता ॥ हायनान्तात् । ७ । १ । ६८ । I अस्मात् तस्य भावे कर्मणि चाण् स्यात् । द्वैहायनम् द्विहायनत्वम्, द्विहायनता ॥ ३८ ॥ य्वृवर्णात् लघ्वादेः । ७ । १ । ६९ । लघुरादिः समीपो येषां इ उ ऋवर्णानां तदन्तेभ्यस्तस्य भावे कर्म्मणि चाणू स्यात् । शौचम्, शुचित्वम्, शुचिता, ६५
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy