________________
[ ५१४]
हेमशब्दानुशासनस्य
एवं हारीतकम्, पाटवम्, बाघवम्, पैत्रम् । लध्यादेरिति किम् १ पाण्डुत्वम् ॥ ६९ ॥
पुरुष हृदयादसमासे । ७ । १ । ७० ।
आभ्यामसमासविषयाभ्यां तस्य भावे कर्मणि चान् स्यात् । पौरुषम्, पुरुषत्वम्, पुरुषता, एवं हार्दम् । असमास इति किम् ? परमपुरुषत्वम्, परमपौरुषमिति मा भूत् ॥ ७० ॥
श्रोत्रियाद लुकू च । ७ । १ । ७१ । अस्मात् तस्य भावे कर्मणि चाण् स्यात्, तद्योगे च यस्य लुक् च । श्रोत्रम्, श्रोत्रियत्वम्, श्रोत्रियता, श्रौत्रियकम् ॥ ७१ ॥
योपान्त्याद् गुरूपोत्तमादसुप्रख्याद
कञ् । ७ । १ । ७२ ।
श्यादीनामन्त्यमुत्तमम्, तत्समीपमुपोत्तमम्, तद्गुरुर्यस्य तस्माद् युपान्त्यात् सुप्रख्यवत् तस्य भाषे कर्म्मणि चाकञ् स्यात् । रामणीयकम्, रमणीयत्वम्, रमणीयता, एवमाचार्यकम् । गुरुपोत्तमादिति किम् ? क्षत्रियत्वम् कायस्वम् । असुप्रख्यादिति किम् ? सुप्र रूयत्वम्, सौप्रख्यम् ॥ ७२ ॥
9
चोराऽऽदेः । ७ । १ । ७३ ।
एभ्यस्तस्य भावे कर्मणि चाकञ् स्यात् । चौरिका, चोरत्वम्, चोरता, एवं धौर्त्तिका ॥ ७३ ॥
१ श्रोत्रियस्य चौरादिकत्वात् "चौरादेः" इतिसूत्राद् अकन्प्रत्ययोऽपि पक्षे भवति । २ दीर्घो विसर्गानुस्वारसंयोगान्तश्च वर्णो गुरुरुच्यते, तेना ने कव्यञ्जनव्यवधाने ऽपि भाचार्यस्य भाग आचार्यकमित्यपि स्यात् ।