________________
__ स्वोपज्ञलघुवृत्तिः [५१२] स्याद् वा। शौक्ल्यम् , शुक्लिमा, शुक्लत्वम्, शुक्लता, शैत्यम् , शितिमा, शितित्वम्, शितिता, शैतम् । दाढयम् , दृढिमा, दृढत्वम् , दृढता, वैमत्यम् , विमतिमा, विमतित्वम् , विमतिता, वैमतम् ॥ ५९ ॥ . पति-राजान्तगुणाङ्ग-राजादिभ्यः कर्म-...
णि च । ७॥ १ ॥ ६०। पत्यन्तराजान्तेभ्यो गुणोऽङ्गं प्रवृत्तौ हेतुर्येषां तेभ्यो, राजादेश्व, तस्य भावे क्रियायां च ट्यण् स्यात् । आधिपत्यम् , अधिपतित्वम् , अधिपतिता, अधिराज्यम् , अधिराजत्वम् , अधिराजता, मौढ्यम् , मूढत्वम् , मूढता , राज्यम् , राजत्वम् , राजता, काव्यम् कवित्वम् , कविता ॥ ६ ॥ . अर्हतस्तान्त् च । ७।१ । ६१।
अस्मात् तस्य भावे कर्माणि च व्यण् स्यात, तद्योगे च तस्य न्तादेशः। आर्हन्त्यम्, अर्हत्त्वम् , अर्हत्ता ॥३१॥
सहायाद वा । ७।१ । ६२ । । अस्मात् तस्य भावे कर्मणि च ट्यण् स्याद् वा । साहाय्यम् , साहायकम् , सहायत्वम् , सहायता ॥६२॥
१ आन्तरारिहननाद् रजोहननात् रहस्याभावाच्च तीर्थंकरादिवाचकोऽर्हन् शब्दः पृषोदरादेः सिध्यति । तस्याऽर्हतो भावः कर्म वा आर्हन्त्यम् । व्याकरणपूर्णतत्त्वाऽ. वेदिन आर्हन्त्यमिति प्रयोगमशुद्ध विकल्प्य सकलाहत्प्रतिष्ठानमितिपद्ये आर्हन्त्यमिति प्रयोग प्रामादिकं शङ्कन्ते, तत् तेषामेतत्सूत्रानवबोधात् स्खलितमेव विज्ञेयम् , व्याकरणब्रह्मणो हेमचन्द्राचार्यस्य प्रयोगे प्रमादाऽसम्भवात् । णित्त्वात् स्त्रियां डीप्रत्यये आन्तिी इति स्यात् । प्रयोगद्वयेऽपि एतेन सूत्रेणाऽर्हतः टयण् प्रत्ययः न्तादेशश्च विधायेते । पक्षे त्वादि । अणि परे आहेतम् ।